सुभाषितनीवी /115
This page has not been fully proofread.
परीक्षितपद्धतिः ।
वनक्ति प्रकटयति यथा अभिमुखतो हिरण्यरजतादिशुद्धिर्ज्ञायते
तथा परिशुद्धयोगात् दुष्टादुष्टस्वरूपे ज्ञायेते इति भावः । ' सुवर्णमपि
दुर्वर्ण दर्शयितुमिति विरोधस्यार्थान्तरेणाभासितत्वात् विरोधाभासः ॥
महात्मसु दुर्जनेनारोपितं दोघं केऽपि न गृह्णन्तीत्याह-
स्वच्छ स्वादुविशुद्धानां स्रोतसां कलशोदधेः ।
दोषं केऽपि न मृष्यन्ति दुष्टजिह्येन कल्पितम् ॥ ४ ॥
स्वच्छेति ॥ दुष्टजिह्येन दुष्टसर्पेण वासुकिना कल्पितम्, कलशो-
दधेः क्षीरसमुद्रस्य, स्वच्छस्वादुविशुद्धानां निर्मलमधुरशुभ्राणाम्,
स्रोतसाम्, दोषं कालकुट विषम्, केऽपि न मृष्यन्ति न सहन्ते ।
एवं सत्सु दुष्टैरारोपितं दोघं केऽपि नाङ्गीकुर्वन्तीत्यर्थः ॥ ४ ॥
सतामिह लोके जातं सत्त्वगुणसंस्थापनं योग्यम्, दुष्टानां तु सत्त्व-
संस्थापनं अन्यदित्याह--
. इहैव भुवने जातं सत्त्वसंस्थापनं क्षमम् ।
गृह्यते किमपि स्वस्थैरन्यत्किमपि जिह्मगैः ॥ ५ ॥
• इहेति ॥ इहैव भुवने लोके, जातं संभावितम्, सत्त्वसंस्थापनं
स्वगुणवर्धनम्, क्षमं हितम्, 'आहारशुद्धौ सत्वशुद्धि:' इत्युक्त--
कारेण संवृद्धिः सम्पादनीयेत्यर्थः । 'न सत्त्वादारोग्यम्' इति सत्त्व-
. गुगस्यैवात्मनो भवरोगनिवर्तनेनारोगतासम्पादकत्वात् 'इहैव नरक-
व्याधिचिकित्सां न करोति चेत् । अनौषधमयं प्राप्य सरुजः किं
करिष्यति' इति युक्तम् । स्वस्थैः पारलौकिकदुःखमजानद्भिः इद-
7