सुभाषितनीवी /114
This page has not been fully proofread.
९६
सुभाषितनीव्यां
धर्मसन्देहे वृद्धान् पृच्छेत्, तेऽपि तत्र सम्यगुपदिशन्तीत्यभिप्रेत्याह--
छन्दःप्रत्ययशुद्धात्मा पश्यन्यतिगणस्थितीः ।
वर्णादिनियतं वृत्तं नियुङ्क्ते गौरवादिवित् ॥ २ ॥
छन्द इति ॥ छन्दः प्रत्ययेन वेदार्थज्ञानेन छन्दः शास्त्रज्ञा-
नेन च, शुद्धः सन्देहरहितः आत्मा मनो यस्य स तथोक्तः, यतीनां
व्रतिनां गणस्थितीः, पश्यन् विचारयन्, 'ये निर्जितेन्द्रियग्रामा यति-
नो यतयश्च ते ' इत्यमर: । ' यतिर्विच्छेदसंज्ञितः इत्युक्तयति-
गणस्थितीश्च ;
अत्र विच्छेदाभावो दोषः, अत्र विच्छेदाभावो गुण
इत्यादिस्थितीश्च पश्यन्
.
गौरवादिवित् गुरुभावं प्राप्तवान्,
वर्णानां गुरुत्वलघुत्वाद्यभिज्ञश्च वर्णादिनियतं ब्राह्मणादिवर्णानियतं
अक्षरगणादिनियतं च, वृत्तं आचारं आर्यादिवृत्तं च, नियुङ्क्ते उप-
दिशति ; अतो वृद्धान् दृष्ट्वा अनुतिष्ठेदिति भावः ॥ २ ॥
सदसद्विवेकः परिशुद्धमुखादवगन्तव्य इत्याह-
सुवर्णमपि दुर्वर्ण युक्त्या दर्शयितुं कचित् ।
व्यनक्ति शुद्धिं सहसा शुचिरेकः स्वतैक्ष्ण्यतः ॥ ३ ॥
सुवर्णमपीति ॥ एकः शुचिः अभिजनविद्यावृत्तैः शुद्धः वह्निश्च,
' शुचिरप्पित्तम्' इत्यमरः । क्वचित् पुरुषे हिरण्यादौ च युक्त्या
स्वयोगेन, सुवर्णे शोभनब्राह्मणादिजातिं दुर्वर्ण शूद्रादिजातिं च शूद्रा-
दिष्वपि केषु चिद्यज्ञोपवीतादिधारणसंभवात्, सुवर्ण शोभनवर्ण
दुर्वर्णे च दर्शयितुं स्वतैक्ष्ण्यतः स्वतेजेामहिम्ना, सहसा शुद्धिं शोभनं