This page has not been fully proofread.

6
 
परीक्षितपद्धतिः ॥
 
-1.4109
 
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि
विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः इति नीतिमनुसृत्य
परीक्षितपद्धतिमाह-
 
काकानां कोकिलानां च सीमाभेदः कथं भवेत् ।
यदि विश्वसृजा साक्षं न कृता कर्णशष्कुली ॥ १ ॥
 
;
 
काकानामिति । विश्वसृजा ब्रह्मणा अक्षिभ्यां सहितं यथा
भवति तथा साक्षं, 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः ; बहुव्रीहौ
सक्थ्यक्ष्णोः : स्वाङ्गात् प्रजिति षच् । कर्णशष्कुली कर्णपाशी, न कृता
यदि, 'शष्कुली कर्णपाश्यपि इत्यमरः । काकानां कोकिलानां च
माया मर्यादायाः, भेदः कथं भवेत्; कर्णसृष्ट्यभावे काकको कि-
लभेदो न जायेत, अक्षिसृष्टया काककोकिलसाम्यमेव गृहीतम्, तत्र
तनिग्राहिकर्णसृष्टया अयं काकः अयं कोकिल इति ज्ञायत
इत्यर्थः । परमपुरुषेणैव लोकहितार्थ समीचीनप्रमाणानि सम्पादितानि,
ततश्चापातज्ञानेन सदसद्विशेषाग्रहेऽपि विशेषग्राहकै : प्रमाणैः सम्यक्
परीक्ष्य सद्वस्तूपाददीत, असद्वस्तु त्यजेदिति भावः ॥ १ ॥
 
'ये तत्र ब्राह्मणाः सम्मर्शिनः, युक्ता आयुक्ताः, अक्षा धर्मकामाः
स्युः, यथा तत्र वर्तेरन्, तथा तत्र वर्तेथाः' इत्युक्तरीत्या वृत्तादि-