सुभाषितनीवी /112
This page has not been fully proofread.
९.४
सुभाषितनीव्यां
भाग्यवशेन स्वयमेव कस्मिंश्चिजने वाल्मीकाविव कविता प्रस-
रति चेत्सैव कविता, न यत्नसाध्या, तादृशी च क्वचिद्भवतीत्याह-
मनुव्यासप्राचेतसपरिषद कचिदियं
सुधासिक्का मूक्तिः स्वयमुदयमन्विच्छति जने ।
निरुन्ध्युः के विन्ध्याचलविकटसंध्यानटजटा-
परिभ्रान्ता पोरुपरि यदि गङ्गा निपतति ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य
कृतिषु सुभाषितनीव्यां
सत्कविपद्धतिः
एकादशी ॥
मनुव्यासेति ॥ मनुव्यासप्राचेतसपरिषद सुधा सिक्तारसभरिता
सूक्ति:, जने पामरेऽपि स्वयमुदयमाविर्भावं अन्विच्छति अपेक्षते,
तत्र निदर्शनमाह - निरुन्ध्युरिति । विन्ध्याचलवद्विकटा निम्नोन्नताः
सन्ध्यानटस्य शिवस्य या जटास्तत्र परिभ्रान्ता गङ्गा पङ्गोरुपरि यदि
निपतति के निरुन्धुः, न केऽपीत्यर्थः ॥ १२ ॥
इति श्रीमच्छ्रीशैल कुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य
श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी-
व्याख्यायां रत्नपेटिकास्यायां