सुभाषितनीवी /111
This page has not been fully proofread.
सत्कविपद्धतिः ।
•
९३
श्लोक मबद्ध मस्त्यपि । नामान्यनन्तस्य यशोङ्कितानि गृह्णन्ति गायन्ति
गृणन्ति साधवः ॥' इति सत्कविताया भगवच्चरित्रवर्णने पापनिव-
र्तकत्वात् सर्वपुरुषार्थहेतुत्वात् महानपि धनादिना अधिकोऽपि कश्चि
त्परमपुरुष इति 'महान् प्रभुर्वै पुरुषः सत्त्वस्यैव प्रवर्तकः । ' इति
श्रुतिप्रसिद्धेः । पूर्वकल्पप्रकारेण आदिकवीनां वाल्मीकिप्रभृतीनां
निर्माणप्रकारेण ' धाता यथा पूर्वमकल्पयत् इति श्रुतिनिर्दिष्टपूर्व-
ब्रह्मकल्पप्रकारेण च, पुरुषार्थप्रवृत्तया, ' यशसेऽर्थकृते इत्युक्तप्र
योजनार्थं प्रवृत्तया, पुरुषस्य करणकलेवरादिनिर्माणार्थं प्रवृत्तया च;
विचित्रसृष्टया रसभावबंधुरशब्दार्थचमत्कारकल्पनया विहरन्, व्याप्तः
कीर्त्या सर्वत्र व्याप्तः, स्वरूपेण सर्वत्र व्याप्तश्च । परमपुरुषो निदशर्नम् ॥
क्षीरसमुद्रोत्पन्नसुधेव सत्कविसूक्तिरास्वादनीया भवतीत्याह--
मतिमन्थजवेन लब्धवर्णा
प्रतिपन्ना विबुधैरनन्यभक्तैः ।
सुकवेरनघा नयस्य सूक्तिः
स्वदते दुग्धपयोनिधेः सुधेव ॥ ११ ॥
मतिमन्थेति ॥ अनन्यभक्तैः भगवद्भक्तैः अमृतातिरिक्तान्नरहितैश्व,
विबुधैः विद्वद्भिः देवैश्व मतिमन्थजवेन मन्थसदृशबुद्धयतिशयेन
मतिसदृशमन्थवेगेन च, प्रतिपन्ना लब्धा वर्णा यस्याः सा तथोक्ता,
लब्धः वर्णः शुभ्रवर्णो यस्याः सा तथोक्ता च; अनघा दोषरहिता
दुःखविरोधिनी च; सुकवेर्नयस्य सूक्ति: नीतिसम्बन्धिनी सूक्तिः,
दुग्धपयोनिधेः सुधेव स्वदते रोचते ॥ ११ ॥