This page has not been fully proofread.

९२
 
सुभाषितनीव्यां
 
कविना च विभुर्विभुना च कविः कविना विभुना च विभाति सभा ।'
' अपत्यं च कवित्वं च द्वयमेव शुभास्पदम् ' इत्युक्तरीत्या कविता -
भाग्यवानेन प्रकाशत इत्याह-
5-
 
सदा नवोक्तिमहितः प्रतिरुन्धन्प्रतीपगान् ।
प्रथितः काव्यनाम्नापि कविरेकः प्रकाशते ॥ ९ ॥
 
सदेति ॥ सदा नवोक्त्या 'प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां
विदु:' इत्युक्तप्रतिभया विचित्रापूर्वशब्दार्थयुक्त रचनया, महितः
सर्वैः पूजितः, दानवानां उक्तिभिः सह वर्तत इति सदानवोक्तिः स
चासौ महितश्चेति ; शुक्रपक्षे खञ्जकुब्जवद्विशेषणसमासः । प्रतीप-
गान् प्रतीपवर्तिनः कुकवीन् प्रतिरुन्धन् प्रतिकूलवर्तिग्रहान् प्रति-
रुन्धंश्च, शुक्रदृष्टेस्तद्दोषनिवर्तकत्वादिति भावः; काव्यनाम्नापि प्रथितः
भारविः मात्र इत्यादिकाव्यनामात्मनापि स्वनामप्रसिद्धिमान्, अपि-
शब्देन कालिदास इत्यादि केवलनाम्ना च प्रसिद्ध:, ' शुक्रो दैत्य-
गुरुः काव्य:' इति काव्यनाम्ना च प्रथित इति च ; एकः मुख्यः
कवि : आदिर्वर्णयिता द्वितीयः शुक्रश्च, प्रकाशते दीप्यते । शुक्रो
निदर्शनम् ॥ ९ ॥
 
कश्चिन्महाकविः स्वयमेकदेशस्थितोऽपि कीर्त्या सर्वदिग्व्याप्तो
भवतीत्याह-
 
पूर्वकल्पप्रकारेण पुरुषार्थप्रवृत्तया
 
विचित्रसृष्टया विहरन्व्याप्तः कश्चिन्महानपि ॥ १० ॥
पूर्वकल्पेति ॥ 'सवाग्विसर्गो जनताघविप्लवो यस्मिन् प्रति-