सुभाषितनीवी /109
This page has not been fully proofread.
सत्कविपद्धतिः ।
अपार्थेतरयुक्तानां व्याससङ्ग्रहशालिनाम् ।
अपि गोपालगीतानां निवेशो निगमादिषु ॥ ७ ॥
,
९१
व्यासो
अपार्थेति ॥ अपार्थेतरः सदर्थ: अर्जुनश्च तेन युक्तानाम्,
विस्तरः संग्रहः सङ्क्षेपः तेन शालिनाम्, ग्रन्थकारिणामेष स्वभावः,
'यत्समासव्यासधारणम्' इति । व्यासस्य बादरायणस्य संग्रहेण
ग्रथनेन शालिनां च; गोपालगीतानां पशुपाल श्लोकानामपि श्रीकृष्णो-
क्तानामपि निगमादिषु निवेश: प्रमाणेषु ग्रहो भवति, गीतोपनिषद-
ति वेदान्ततुल्यत्वेन ग्रहो भवतीत्यर्थः । गीतोपनिपन्निदर्शनम् ॥ ७ ॥
'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः पर-
निरृतये कान्तासम्मिततयोपदेशयुजे ॥' इति काव्यस्यानेकपुरुषा-
र्थसाधनत्वात् लोहितपायिगोपीडन्यायेन केनचित्कुकविना सरसकवि-
शब्दं न्यक्कृत्य क्रियमाणः शब्दाडम्बरो वृधेत्याह-
जलाशयस्य घोषेण जातलौल्यस्य भूयसा ।
कविशब्दं तिरोधाय कश्चिदर्थो न साध्यते ॥ ८ ॥
जलाशयस्येति ॥ जातं लौल्यं अहं कविरिति चापल्यं वाय्वादिना
तरलत्वं च यस्य तथोक्तस्य ; जलाशयस्य मन्दबुद्धे: लडयोरभेदात्,
सरसश्च; भूयसा घोषेण कवेः सत्कवेः शब्दं, के जले विः पक्षी हंसः
तस्य शब्दं तिरोधाय परैरश्रुतं कृत्वा, कश्चिदप्यर्थो न साध्यते, कवि-
शब्दकृतमाधुर्यादिकं स्वयं न विभर्ति -- इत्यर्थः ॥ ८ ॥
मणिना बलयं वलयेन मणिर्मणिना वलयेन विभाति करः ।