सुभाषितनीवी /108
This page has not been fully proofread.
९०
सुभाषितनीव्यां
प्रभूतेति ॥ प्रभूतं अधिकं यथा भवति तथा उदिता आविर्भूता
मुक्ता याभ्यस्ताभ्यः सूक्तिशुक्तिभिः, शुक्तिसदृशसूक्तिभिः सूक्तिसदृश-
शुक्तिभिश्व, सुदृशां विदुषां कर्णपूराय श्रोत्रानन्दाय, स्त्रीणां कर्णावतं-
साय च भूयते भावे लट् । श्रोत्रानन्दावहत्वं कथं ? कथं वा कर्णावतं-
सार्थत्वं शुक्तीनामित्यत्राह ' तादृक्त्वं फलभेदतः' इति, अर्थभेद-
वैचित्र्यात् गर्भीकृतमौक्तिकानां शुक्तीनां भेदनाच्च । शुक्तिसा
म्यम् ॥ ५ ॥
' सा कविता सा वनिता यस्याः श्रवणेन दर्शनेनापि । कवि-
हृदयं युवहृदयं सरलं तरलं च सत्वरं भवति' इत्युक्तरीत्या सतां सूक्ति-
र्विरुद्धं विचारितापि स्वां शोभामपरित्यजन्ती भगवदानन्दावहेत्याह–
प्रतीपमुपसृष्टापि स्वामभिख्यां न मुञ्चति ।
कालिकेव सतां सूक्तिस्तादृशपुतिनन्दनी ॥ ६॥
प्रतीपमिति ॥ प्रतीपं प्रतिकूलं, उपमृष्टापि विचारितापि,
कालिकेव मेघपङ्किवि, स्वामभिख्यां शोभां सूक्तिरित्याख्यां वा न-
मुञ्चती अत्यजन्ती, मेघपङ्क्तिरपि प्रतीपं प्रतिलोमं उपमृष्टापि करत -
लादिना घट्टितापि स्वां शोभां न मुञ्चति, तद्वदित्यर्थः ; सतां सूक्तिः
तादृशद्युतिः भगवान् तस्य नन्दनी सन्तोषावहा भवति । नमुञ्चती-
त्यत्र आच्छीनद्योर्नुमित्यस्य वैकल्पिकत्वान्नुमभावः, नशब्दस्य सुप्-
सुपेति समासः ॥ ६॥
'युक्तियुक्तं वचो ग्राह्यं बालादपि सुभाषितम् ' इति न्यायेन पशु-
पालवाक्यमप्यर्थवश्चेद्ब्राह्यमित्याह-