This page has not been fully proofread.

सत्कविपद्धतिः ।
 
८९
 
रीत्या परम पुरुषमहिमवर्णनप्रवृत्तस्य सत्यप्रतिष्ठितत्वस्य संभवान्न व्यति-
रेके तात्पर्यम् । अपि तु दौर्लभ्य एव तात्पर्यम् ; ' स महात्मा सुदु-
 
1
 
र्लभः इतिवत् । अन्यत्र सत्ये सत्यलोके कः ब्रह्मा प्रतिष्ठित
इत्यर्थः । चतुर्मुखोऽत्र निदर्शनम् ॥ ३ ॥
 
'वार्ता च कौतुककरी विमला च विद्या लोकोत्तर: परिमलश्च कु-
रङ्गनाभेः । तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्त्वयं प्रसरति स्वय-
इत्युक्तरीत्या परिशुद्धविद्या समुद्रपरिवेष्टितभूमण्डले
 
मेत्र लोके ॥
 
स्वयमेव प्रसरतीत्याह-
 
कुतश्चिदचलस्थानात्प्रयान्ती सागरान्तिकम् ।
दृश्यादृश्यतनुर्भाति कृत्यभीष्टा सरस्वती ॥ ४ ॥
 
कुत इति ॥ कुतश्चिदचलस्थानात् देशान्तरं असञ्चरतोऽपि कवे-
रित्यर्थः पर्वतस्थानाच्च, सागरान्तिकं प्रयान्ती समुद्रपर्यन्तं गच्छन्ती
दृश्यादृश्यतनुः क्वचिद्रूढव्यङ्गयाकृतिः क्वचिद गूढव्यङ्गयाकृतिः,
यद्वा पण्डितेषु दृश्यतनुः अपण्डितेषु अदृश्यतनु:, अन्यत्र सरस्वत्या-
ख्यनद्या गुतगामित्वात् दृश्यादृश्यतनुत्वं प्रसिद्धम् । कृतिषु प्रबन्धेषु
विषये अभीष्टा कृतीनां विदुषां स्नानाद्यर्थमभीष्टाच, सरस्वती विद्या
वेगाख्यनदी च भाति, नदी निदर्शनम् ॥ ४ ॥
 
विदुषां सूक्तयो मुक्तात्मतां संपादयन्त्यः श्रोत्रानन्दाय भवन्ती-
 
त्याह-
 
-
 
प्रभूतोदितमुक्ताभिर्भूयते सूक्तिशुक्तिभिः ।
 
सुदृशां कर्णपूराय तादृक्त्वं फलभेदतः ॥ २ ॥