This page has not been fully proofread.

८८
 
सुभाषितनीव्यां
 
इति बुद्धिस्थं चातुर्य तदनुशब्दाभिलापिनि आनने आरोपितम् ;
चतुर्मुखश्च, महापुरुषे धीरोदात्तादिनायके परमपुरुषे च बद्धः वर्ण-
यितृत्वेन सम्बद्धः आत्मा मनो यस्य स तथोक्तः, परमपुरुषव्यानासक्त-
मनाश्च; सर्गादिषु सर्गकाण्डसमुच्छ्रासादिसंज्ञकपरिच्छेदेषु विषये
प्रथितः प्रसिद्धः उदयः बुद्धिप्रतिभादिरूपाभ्युदयो यस्य स तथोक्तः,
सृष्टयादिविषये प्रसिद्धोत्पत्तिश्च । अवदातया शुद्धया दोषरहितयेति
यावत्, धवलया च वाचा वाग्देव्या च सेव्यते । पश्य मनसा विचा-
रयेत्यर्थः । चतुर्मुखो निदर्शनम् ॥ २ ॥
 
सत्यवान् महाकविदुर्लभ इत्याह-
 
-
 
विशुद्धवर्णललिता गुणालंकारशालिनी ।
 
सरसा भारती यस्य स सत्ये कः प्रतिष्ठितः ॥ ३ ॥
 
विशुद्धेति । विशुद्धवर्णललिता रसानुगुण्येन असंयुक्तकोमलव-
र्णादिमनोहरा, शुभ्रवर्णा च गुणालङ्कारशालिनी प्रसादमाधुर्यादि-
गुणैरुपमानुप्रासाद्यलङ्कारैश्च शालिनी । अन्यत्र सौन्दर्यादिगुणैः
कटककेयूराद्यलङ्कारैश्च शालिनी, सरसा रसाभिव्यञ्जका भर्तरि सानु -
रागा च, भारती वाक् वाग्देवता च यस्य सः, सत्ये कः प्रतिष्ठितः
कोsपि, भगवानेव यस्य स्तुतेर्विषयः । सत्ये ब्रह्मणि कः कोऽपि
प्रतिष्ठितः । ' इषुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षया-
न्निवर्तन्ते न गोविन्दगुणक्षयात् ' ' वितथा वेदपान्थानां यत्र सायंगृहा
गतिः । ' ' यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः
: इत्युक्त-