सुभाषितनीवी /105
This page has not been fully proofread.
सत्कविपद्धतिः ।
अपङ्किलधियः शुद्धाः साधुमानसवृत्तयः ।
वमन्ति श्रुतिजीवातुं ध्वनिं नवरसास्पदम् ॥ १ ॥
अपङ्किलेति ॥ अपङ्किलधियः रागमोहादिकालुष्यरहितबुद्धयः,
अनेन वक्तृवैलक्षण्येनोपादेयत्वसिद्धिः, अन्यत्र कर्दमवत्सु क्षुद्रसर-
स्स्वपेक्षारहिताः, शुद्धाः शुचयः धवलाश्व, साधुमानसे समीचीनमनो-
व्यापारे भगवद्भक्त्यादौ मानससरसि च वृत्तिर्येषां ते तथेोक्ताः, नव-
रसास्पदं शृङ्गारादिनवरसाभिव्यञ्जकम् नूतनोदकपानसम्भवं च, श्रुति-
जीवातुं वेदमूलम् श्रोत्रानन्दकरं च, ध्वनिं वमन्ति प्रकटयन्ति, गौण-
वृत्त्याश्रयणाद्वमन्ति इत्यस्य न ग्राम्यता । तदुक्तम् 'निष्टयूतोद्गीर्णवान्ता-
दिगौणवृत्तिव्यपाश्रयात् । अतिसुन्दरमन्यत्र ग्राम्यकक्ष्यां विगाहते '
इति । हंससाम्यं गम्यते, 'मधुरं मधु पीयूषं तस्मात्तस्मात्कवेर्वचः ॥'
महानायकमेव स्वकाव्यस्य विषयं कुर्वन् प्रतिभान्वितां महाक-
विर्भवतीत्याह-
महापुरुषबद्धात्मा सर्गादिप्रथितोदयः ।
पश्यावदातया वाचा सेव्यते चतुराननः ॥ २ ॥
महापुरुषेति ॥ चतुरं रसभावादिबन्धुर काव्य निर्माणचतुरम् आ-
ननं वक्त्रं यस्य स तथोक्तः; 'यद्धि मनसा ध्यायति, तद्वाचा वदति