सुभाषितनीवी /103
This page has not been fully proofread.
धनधान्यपद्धतिः ।
1
८५
अभिवोपादाय प्रभुर पशुवृत्तिं च सुरभिं
परार्थैकस्वार्थानकृत पुरुषानादिपुरुषः ॥ १२ ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य
कृतिषु सुभाषितनीव्यां
धनधान्यपद्धतिः
दशमी ॥
अनिर्घातमिति । प्रभुः सकलविलक्षणनिर्माणसमर्थः, आदि-
पुरुष: परार्थ एक एव स्वार्थो येषां ते तथोक्ताः तान् पुरुषान् अकृ-
तेत्यन्वयः । कथं कृत्वा अभित्त्वा अनिर्घातं धाराधरं, अशमनीयमपा-
न्निधिं, अकाठिन्यं चिन्तामणिम्, अजडभूतं सुरतरुं, अपशुवृत्ति
सुरभिं च उपादाय गृहीत्वा अभित्त्वा सर्वानेकीकृत्येत्यर्थः । पूर्वसृष्टस्य
धाराधरस्य वज्रनिर्घातो दोषः, अपान्निधेः शमनीयत्वं दोषः, चिन्ता-
मणेः काठिन्यं दोषः, सुरतरोः जडत्वं दोषः, सुरभेः पशुवृत्तिर्दोष
इति तान्विहाय दोषरहितैः तादृशपदार्थैरेकीकृत्य सृष्टवानित्यर्थः ।
अनेन निस्समाभ्यधिकमौदार्य प्रतीयते, निर्घातशब्देनात्र परुषवाक्यं
विवक्षितम्, शमनीयत्वं परार्थशून्यत्वं विवश्चितम्, काठिन्यमत्र
निर्दयत्वं विवचितम् । जडत्वमत्र मन्दत्वं विवक्षितम्, पशुवृत्तिः
पात्रापात्रविशेषानभिज्ञता विवक्षिता । अनिर्घातं धाराधरमित्यादिना