सुभाषितनीवी /102
This page has not been fully proofread.
८४
सुभाषितनीव्यां
त्वचमिति । त्वचं कर्णः शरीराभिन्नं कवचं शरीरात् च्छित्वा
ददौ । मांसं शित्रिः श्येनाय स्वोरुमांसं कपोतरक्षणाय ददौ । जीवं कपो-
तः स्वसमीपागताय व्याधाय स्वभार्याप्राणान् ददौ । अस्थीनि इन्द्राय
दधीचिरस्थीनि ददौ । पृथिवीं परशुरामः कश्यपाय ददौ । श्रियं
रत्नाधीशं त्रिदशतरुं ऐरावतमपि समुद्रो ददौ । एवं यदपि ददुः, तदे
तत्प्रत्येकं वा मिलितमपि वा, मनस्कारोपेतां मनस्कार: चित्ताभोग:,
'चित्ताभोगो मनस्कार:' इत्यमरः । चित्तस्याभोगस्तात्पर्यमिति
सर्वानन्दः । एकस्मिन् विषये पुनः पुनः चित्तवृत्तिराभोग इति
पञ्जिका। तेनोपेतां, स्थिरां कालान्तरेपि स्मर्तव्यां, मधुरां हृदयानन्दवि-
धायिनीं, कल्यां शुभात्मिकां ' स्यात्कल्या तु शुभात्मिका' इत्यमरः ।
उक्तिकणिकां सूनृतवाग्लेशमपि तुलयितुं समीकर्तुं नालं न पर्याप्तम् ।
अतिथिविषये 'अभावे भूमिरुदकं तृणानि कल्याणी वागित्येतानि वै
सतोऽगारे न क्षीयन्ते ' इत्यापस्तंबः । ' सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्
सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ।
हृतं व्याहृताच्छ्रेय आहुः, सत्यं वदेद्वयाहृतं तद्वितीयम् । प्रियं वदे-
द्वयाहृतं तत्तृतीयम्, धर्म्य वदेद्वयाहृतं तच्चतुर्थम् ।' इति महाभारते ।
'चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये
साधुवाक्यं सुशीतलम् । इति चाटुकाराः ॥ ११ ॥
,
परमपुरुषो महोदारान् परार्थमेवासृजदित्याह-
अनिर्घातं धाराधरमशमनीयं निधिरपा-
मकाठिन्यं चिन्तामणिमजडभूतं सुरतरुम् ।
अव्या-