This page has not been fully proofread.

धनधान्यपद्धतिः ।
 
८३
 
करोतीत्यर्थः । महोपकारदानेन अर्थिनः प्रत्युपकारं कर्तुमयोग्यत्वमाह-
अप्रत्युपकृतिक्षममिति, स्वल्पप्रदानेन पुरुषार्थार्थ पुनरावर्तिनं करोति
किं ? नेत्याह-पुनरावृत्तिवर्जितमिति । भगवांश्च - 'नत्र पुनरावर्तते '
'आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेप्य तु कौन्तेय
पुनर्जन्म न विद्यते ' इत्युक्तं करोतीत्यर्थः । अपुनः प्रार्थनीयस्य प्रार्थि-
ताधिकदायिनः । अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन् ' इत्यादि-
कमनु सन्धेमम् ॥ ८ ॥
 
* वदान्यश्च कदर्यश्व गृहीतस्थिरलोभतः ।
स्वानर्थान्संचिनोत्यर्थान्परानर्थैरयोजयन् ॥ ९ ॥
 
* अनिःशेषितदातव्यं वदान्यदिति वादिनम् ।
नोपसर्पति सव्रीडो व्रीडाकुलवधूरिव ॥ १० ॥
 
'
 
'श्रद्धया देयम् । ' यद्वातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता
'मम्प्रीतिभोज्यान्यन्नानि,' 'प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः'
इति महादानमपि प्रियोक्तिपूर्वकमेव सर्वोत्कृष्टमित्याह---
 
त्वचं मांसं जीवं यदपि ददुरस्थीनि पृथिवीं
श्रियं रत्नाधीशं त्रिदशतरुमैरावतमपि ।
तदेतत्प्रत्येकं मिलितमपि नालं तुलयितुं
 
मनस्कारोपेतां स्थिरमधुरकल्योक्तिकणिकाम् ॥
 
* अनयोः श्लोकयोः रत्नपेटिकाव्याख्या नोपलभ्यते ।