सुभाषितनीवी /100
This page has not been fully proofread.
८२
सुभाषितनीव्यां
,
मुख्येति ॥ मुख्यानां श्रेष्ठवस्तूनां यद्वा मुख्यानां ब्राह्मणानाम्,
दानोदकेन क्लिन्नः आर्द्रीभूतः करो यस्य स तथेोक्तः, मुखोद्भवेन
मदोदकेन क्लिन्नशुण्डादण्डश्च ख्याते प्रसिद्धे क्षमा क्षान्तिः धृतिः
धैर्ये च यस्य स तथेोक्तः, अन्यत्र ख्याता क्षमायाः भूमेः धृतिर्धारणं
यस्य स इत्यर्थः । लोकपालाश्रितः कश्चित् सचिवः दिक्पालाश्रि
तश्च, कथमनाशावारण: अर्थिकामाशां पूरयत्येव, कथं न दिग्गज
इत्यर्थः । अत्न दिग्गजो निदर्शनम् । अत्र मामक श्लोकः- आ-
श्रित्य प्रभुमेकं नित्यं पूर्णः स्वयं परं पूर्णः । कुरुते तृतीयसवनं
प्राप्याग्रयणं यथैव षोडशिनम्' ॥ ६ ॥
क्षोभितो विबुधैः कश्चिद्गम्भीरमधुराशयः ।
चन्द्ररत्नगजाश्वादिसहितां दिशति श्रियम् ॥ ७ ॥
"
क्षोभित इति ॥ विबुधैः विद्वद्भिः क्षोभितः प्रसङ्गैः उल्लासितः,
अन्यत्र विबुधैः देवैः मथितः, चन्द्र:, कर्पूरम्, अन्यत्र चन्द्रः, श्रियं
संपत्तिं लक्ष्मीं च । स्पष्टमन्यत् । समुद्रो निदर्शनम् ॥ ७ ॥
परमपुरुषं निदर्शनीकृत्य कस्यचिन्महौदार्यमाह -
अपुनर्देहिशब्दार्थममत्युपकृतिक्षमम् ।
अर्थिनं कुरुते कश्चित्पुनरावृत्तिवर्जितम् ॥ ८ ॥
अपुनरिति । कश्चित् अर्थिनं, अपुनर्दे हिशब्दार्थ - देहि वित
रेति शब्दस्यार्थो यस्य पुनर्नास्ति सोऽपुनर्देहिशब्दार्थः तं, भगवत्पक्षे
स्वाश्रयणानन्तरं पुनर्देही देहवानिति शब्दस्यार्थो यथा न स्यात् तथा