This page has been fully proofread once and needs a second look.

शास्त्राणां पारदृश्वा विमलतमयशा वेदनिष्णातबुद्धिः
श्रीमानौफ्रेक्टनामा जयति बुधवरो देवदत्तापराख्यः ।
यत्सूचीपत्र एव प्रतिदिनममले शास्त्रसारांशयुक्ते
कुर्वन्नभ्यासलीलां भवति मतिमतामग्रणीर्बालिशोऽपि ॥ १ ॥
 
तस्मै श्रोरीनिजगुरवे पुस्तकमेतत्समर्पयति ।
अतिविनयेन समेतः पीटर् पीटर्सनाभिख्यः ॥ २ ॥
 
विद्वद्वराय तस्मै तदी यगुणगणवशीकृतस्वान्तः ।
वितरति पुस्तकमेतद्धर्षाद्दुर्गाप्रसादोऽपि ॥ ३ ॥