This page has been fully proofread once and needs a second look.

नमः शिवाय निःशेषक्लेशप्रशमशालिने ।
त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने ।।
 
एते पण्डितजगद्धरस्प.
 
१७
 
समस्तलक्षणायोग एव यस्योपलक्षणम् ।
तस्मै नमोस्तु देवाय कस्मैचिदपि शंभवे ॥
 
१८
 
संसारैकनिमित्ताय संसारैकविरोधिने ।
नमः संसाररूपाय निःसंसाराय शंभवे ||
 
यथा तथापि यः पूज्यो यत्र तत्रापि योर्चितः ।
योपि वा सोपि वा योसौ देवस्तस्मै नमोस्तु ते ॥
 
२०
 
सदसत्त्वेन भावानां युक्ता या द्वितयी स्थितिः ।
तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शंभवे ॥
 
एते केषामपि.
 
२१
 
नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये ।
अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये ॥
 
२२
 
आसन्नाय सुदूराय गुप्ताय प्रकटात्मने ।
सुलभायातिदुर्गाय नमश्चित्राय शंभवे ।।
 
२३
 
चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे ।
दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः ॥
 
२४
 
विष्णुर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोथवा |
भानुर्वा शशलक्षणोथ भगवान्बुद्धोथ सिद्धोथवा ||