This page has been fully proofread once and needs a second look.


 
नमस्तस्मै वराहाय हेलयोद्धरते महीम् ।।
खुरमध्यगतो यस्य मेरुः खुरखुरायते ।।
 

 
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे ॥
 
भट्टबाणस्य.
 

 
अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥
 
१०
 
नितम्बालसगामिन्यः पीनोन्नतपयोधराः ।
मन्मथाय नमस्तस्मै यस्यायतनमङ्गनाः ॥
 
विटवृत्तस्य.
 
१९
 
अनन्तनामधेयाय सर्वाकारविधायिने ।
समस्तनन्त्रवाच्याय विश्वैकपतये नमः ॥
 
कस्यापि.
 
१२
 
ओं नमः परमार्थैकरूपाय परमात्मने ।
स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे ॥
१३
 
कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम् ।
नमोधितिष्ठतेनन्तनालं कमलविष्टरम् ॥
 
१४
 
कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् ।
मेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥
 
१५
 
नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने ।
त्रिगुणाष्टगुणानन्तगुणनिर्गुणमूर्तये ॥