This page has been fully proofread once and needs a second look.

सुभाषितावलिः
 

 
तां भवानीं भवानीतक्लेशनाशविशारदाम् ।
शारदां शारदाम्भोदसितसिंहासनां नुमः ॥
 

 
अनपेक्षितगुरुवचना सर्वान्ग्रन्थीविभेदयति सम्यक् ।
प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति ॥
 
अथ नमस्कारपद्धतिः
 

 
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥
 
भर्तृहरेः.
 

 
जगत्सिसृक्षाप्रलयक्रियाविधौ
प्रयत्नमुन्मेषनिमेषविभ्रमम् ।
वदन्ति यस्येक्षणलोलपक्ष्मणां
पराय तस्मै परमेष्ठिने नमः ॥
 
प्रकाशवर्षस्य.
 

 
नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे ।
विष्णवेपारसंसारपारोत्तरणसेतवे ॥
 
पुण्यस्य.
 
सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये ।
नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ॥
 
हलधरस्य.