This page has been fully proofread once and needs a second look.

८४
 
काव्यमाला ।
 
पद्यस्य शंभुविषयस्य जयन्ति पादा
 

ये मण्डयन्ति च पुनन्ति च विष्टपानि ॥ १ ॥
 

 
कल्याणिन इति । शंभुः श्रीशिवो विषयः स्थानं यस्य तच्छंभुविषयम् । तादृशस्य

पद्यस्य श्लोकस्य । 'पद्यं श्लोके सृतौ पद्या पद्यः शूद्रो निगद्यते' इति विश्वः । पद्यस्य

श्लोकस्य पादाश्चत्वारश्चरणा जयन्ति सर्वोत्कृष्टा भवन्ति । ते क इत्याह - ये पादाः

श्लोकस्य विष्टपानि भुवनानि । विशन्त्यस्मिन्विष्टपं भुवनम् । मण्डयन्ति भूषयन्ति पुन

न्ति च पवित्रीकुर्वन्ति च । पद्यस्य श्लोकस्य किंभूतस्य । कल्याणं मङ्गलमस्यास्तीति

कल्याणि तस्य । 'कल्याणमक्षये हेम्नि कल्याणं मङ्गलेऽपि च ' इति विश्वः । श्लोकस्य

पादाः कस्येव । सुरगिरेर्देवगिरेः कल्याणिनः कल्याणमक्षयं सुवर्णमस्यास्तीति कल्या

णी तादृशस्य कल्याणिनः । सुरगिरेमेंर्मेरोर्यथा पादाः प्रत्यन्तपर्वता विष्टपानि भूषयन्ति

पवित्रयन्ति च । तथा पद्यस्य पादाः कस्य क इव । हरेर्विष्णोः पादाः पादप्रक्रमा बलि-

बन्धनावसरे त्रयो विक्रमा इव । तेऽपि जयन्ति भूषयन्ति च । हरेः किंभूतस्य । संश्रित-

स्य । कया । लक्ष्म्या हरिप्रियया । पद्यस्य किंभूतस्य । लक्ष्मीर्वर्णशोभा तया संश्रितस्य ।

तथा श्लोकपादाः क इव कस्य । रवेः सूर्यस्य पादा रश्मय इव । यथा रवे रश्मयो जग-

न्ति मण्डयन्ति पुनन्ति च । 'पादा रश्म्यजिङ्घ्रितुर्यायांशा: पादाः प्रत्यन्तपर्वताः' इति को-

षः । रवेः किंभूतस्य । दीप्तिः किरणद्युति भजतीति दीप्तिमाक् । तस्य । पद्यस्य किंभु-

तस्य । दीप्तिभाजः । दीप्तिः कान्तिः । दीप्तिः सत्त्वरूपोऽर्थगुणादिर्यस्य तद्दीप्तिभाक् ।

तादृशस्य । अत्र च 'पद्यस्य' इति पदं विरुद्धमतिकृदिति तस्मात् 'वृत्तस्य' इति पाठः

साधुः । 'वृत्तं मध्ये नगे (?) पद्ये चरित्रे वर्तने मृते' इति मङ्गःखः

 
याः पङ्किलेन कलिलेन वियोजयन्ति
 

नित्योज्ज्वलेन कुशलेन च योजयन्ति ।

ता धूर्जटेरमरनिर्झरिणीतरङ्ग-

भङ्गाभिरामगतयः स्तुतयो जयन्ति ॥ २ ॥
 

 
या इति । अमरनिर्झरिणीतरङ्गभङ्गवत् गङ्गातरङ्गभङ्गवदभिरामा गतिर्यासां ताः

शंभोः श्रीशिवस्य स्तुतयो जयन्ति सर्वोत्कृष्टा भवन्ति । ता का इव । याः स्तुतयः पङ्को

विद्यते यस्य तत्पङ्किलं तेन कलिलेन मालिन्येन । कालुष्येणेत्यर्थः । भक्तजनमिति

शेषः । भक्तजनं वियोजयन्ति । निष्पापं कुर्वन्तीत्यर्थः । तथा या नित्योज्ज्वलेन मिनिर्मलेन

कुशलेन मङ्गलेन च भक्तजनं योजयन्ति । सकुशलं कुर्वन्तीत्यर्थः ॥
 

 
संसारदारुणदवानलदह्यमान-

वाक्चित्तकायकुशलीकरणौषधानि ।
 
Digitized by Google