This page has been fully proofread once and needs a second look.

८२
 
काव्यमाला ।
 
भूपालास्त एव बालिशा मूर्खा: बालिशभूपाला भूपालबालिशा वा । परनिपातः । तेषां

विलङ्घनाम्यवमानास्तान्येव विप्लवास्तेषां कर्मभूतानां स्मरन्ति । स्मृत्यर्थकर्मणि षष्ठी ॥

 
इदं मधुमुखं विषं हरति जीवितं तत्क्षणा-

दपथ्यमिदमाशितं व्यथयते विपाके वपुः ।

इदं तृणगणावृतं बिलमधो विधत्ते क्षणा-

द्यदत्र मलिनोल्बणैर्द्रविणमर्जितं कर्मभिः ॥ ३९ ॥

 
अतः प्रतनुवैभवोद्भवदखर्वगर्वक्षमा-

पतिप्रणयसंभवं भुवि विडम्बनाडम्बरम् ।

विहाय सुरवाहिनीपुलिनवासहेवाकिनो
 
-
 

भजन्ति कृतिनस्तमीरमणखण्डचूडामणिम् ॥ ४० ॥ (युग्मम्मम् )

 
इदमिति द्वाभ्याम् । अतो हेतोः प्रकर्षेण तनु अचिरस्थायि यद्वैभवं विभुत्वं तेनो-
द्भव

द्भवन्
नखर्वो महान्गर्वोऽहंकारो येषां तादृशा ये क्षमापतयो नृपास्तेषां प्रणयो यात्रा । 'प्र-

णयो याचनार्थना' इति कोषः । ततः संभवो यस्य स तादृशं विडम्बना उपहासस्तस्या

आडम्बरमाटोपं विहाय त्यक्त्वा सुरवाहिनीपुलिने गङ्गातीरे वासो वसतिस्तत्र हेवा-

किनो व्यसनिनः कृतिनो विपश्चितः सहृदयास्तमीरमणस्खण्डचूडामणिणिं श्रीशिवं भ
-
जन्ति सेवन्ते । अतः कुत इत्याह - अत्रास्मिन्संसारे अत्र जगति वा मलिनानि राज-

सतामसप्रकृतित्वाद त्यन्तमलीमसानि उल्बणान्युद्भटानि च तादृशैः कर्मभिः करणभूतैः ।

मनुष्यैरिति शेषः । मनुष्यैः कर्तृभिर्यद्द्रविणं धनमर्जितमुपार्जितं तदिदं मधुमुखं विषम् ।

'वसन्तदैत्यचैत्रमधूका मधवो मधु । मद्यं पुष्परसं क्षौद्रं मधुरे वाच्यलिङ्गकःक्रः ॥' इति

मङ्गः । मधुमधुरं मुखमामुखं यस्य तत् । मधुमधुरं विषं स्थावरमादौ चर्वणे मधुरं

परिपाकेऽन्तर्दाहकारि तत्क्षणाज्जीवितं हरति यथा तथैव मलीमसानि कर्माण्यादावत्य-

न्तमधुराणि परिपाके निरयभ्रंशप्रदानीत्यर्थः । तथा मलीमसोल्बणैः कर्मभिर्यद्द्रविण
-
मुपार्जितमिदमाशितं भक्षितमपथ्यं यथा कफपित्ताधिक्ये माषमत्स्यादिभक्षितमामुखे

स्वादु विपाके पुनर्वपुः शरीरं व्यथयते तद्वत् । तथा मलिनोल्बणैः कर्मभिर्मनुष्यैर्यद्धन -
मु -
पार्जितं तदिदं तृणगणावृतं तृणसमूहादिकैर्गुप्तं पिबिलं कृपादिप्रायं तदेवोपवेशनात्क्षणादे-

वाधो विधत्ते ॥ युग्मम् ॥
 

 
किं भूयोभिः पै[^१]परुषविषयैः श्रीविकारैरसारैः
 

किं वा भूयः पतनविरसैः स्वर्गभोगाभिलाषैः ।

मन्ये नान्यद्भवभयविपत्कातराणां नराणां
 

मुक्त्वा भै[^२]भक्तिं भगवति भवे शस्यमाशास्यमस्ति ॥ ४१ ॥

 
[^
]. 'परुषविषमैः' इति ख-पाठः
[^
]. 'मुक्तितिं' इति ख- पाठः.
 
Digitized by Google