This page has not been fully proofread.

८२
 
काव्यमाला ।
 
भूपालास्त एव बालिशा मूर्खा: बालिशभूपाला भूपालबालिशा वा । परनिपातः । तेषां
विलङ्घनाम्यवमानास्तान्येव विलवास्तेषां कर्मभूतानां स्मरन्ति । स्मृत्यर्थकर्मणि षष्ठी ॥
इदं मधुमुखं विषं हरति जीवितं तत्क्षणा-
दपथ्यमिदमाशितं व्यथयते विपाके वपुः ।
इदं तृणगणावृतं बिलमधो विधत्ते क्षणा-
द्यदत्र मलिनोल्बणैर्द्रविणमर्जितं कर्मभिः ॥ ३९ ॥
अतः प्रतनुवैभवोद्भवदखर्वगर्वक्षमा-
पतिप्रणयसंभवं भुवि विडम्बनाडम्बरम् ।
विहाय सुरवाहिनीपुलिनवासहेवाकिनो
 
-
 
भजन्ति कृतिनस्तमीरमणखण्डचूडामणिम् ॥ ४० ॥ (युम्मम् )
इदमिति द्वाभ्याम् । अतो हेतोः प्रकर्षेण तनु अचिरस्थायि यद्वैभवं विभुत्वं तेनो-
द्भवनखर्वो महान्गर्वोऽहंकारो येषां तादृशा ये क्षमापतयो नृपास्तेषां प्रणयो यात्रा । 'प्र-
णयो याचनार्थना' इति कोषः । ततः संभवो यस्य स तादृशं विडम्बना उपहासस्तस्या
आडम्बरमाटोपं विहाय त्यक्त्वा सुरवाहिनीपुलिने गङ्गातीरे वासो वसतिस्तत्र हेवा-
किनो व्यसनिनः कृतिनो विपश्चितः सहृदयास्तमीरमणस्खण्डचूडामणि श्रीशिवं भ
जन्ति सेवन्ते । अतः कुत इत्याह - अत्रास्मिन्संसारे अत्र जगति वा मलिनानि राज-
सतामसप्रकृतित्वाद त्यन्तमलीमसानि उल्बणान्युद्भटानि च तादृशैः कर्मभिः करणभूतैः ।
मनुष्यैरिति शेषः । मनुष्यैः कर्तृभिर्यविणं धनमर्जितमुपार्जितं तदिदं मधुमुखं विषम् ।
'वसन्तदैत्यचैत्रमधूका मधवो मधु । मद्यं पुष्परसं क्षौद्रं मधुरे वाच्यलिङ्गकः ॥' इति
मङ्गः । मधुमधुरं मुखमामुखं यस्य तत् । मधुमधुरं विषं स्थावरमादौ चर्वणे मधुरं
परिपाकेऽन्तर्दाहकारि तत्क्षणाज्जीवितं हरति यथा तथैव मलीमसानि कर्माण्यादावत्य-
न्तमधुराणि परिपाके निरयभ्रंशप्रदानीत्यर्थः । तथा मलीमसोल्बणैः कर्मभिर्यद्रविण
मुपार्जितमिदमाशितं भक्षितमपथ्यं यथा कफपित्ताधिक्ये माषमत्स्यादिभक्षितमामुखे
स्वादु विपाके पुनर्वपुः शरीरं व्यथयते तद्वत् । तथा मलिनोल्बणैः कर्मभिर्मनुष्यैर्यद्धन -
पार्जितं तदिदं तृणगणावृतं तृणसमूहादिकैर्गुप्तं पिलं कृपादिप्रायं तदेवोपवेशनात्क्षणादे-
वाधो विधत्ते ॥ युग्मम् ॥
 
किं भूयोभिः पैरुषविषयैः श्रीविकाररसारैः
 
किं वा भूयः पतनविरसैः स्वर्गभोगाभिलाषैः ।
मन्ये नान्यद्भवभयविपत्कातराणां नराणां
 
मुक्त्वा भैक्तिं भगवति भवे शस्यमाशास्यमस्ति ॥ ४१ ॥
१. 'परुषविषमैः' इति ख-पाठः २. 'मुक्ति' इति ख- पाठः.
 
Digitized by Google