This page has been fully proofread once and needs a second look.

७ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
ज्योतिः परं गलदनल्पविकल्पजाल-

मालोकयन्ति भगवन्तमनन्तमन्तः ॥ ३६ ॥ (युग्मम् )

 
रोमन्थेति द्वाभ्यां यु॒युग्मम् । रोमन्थेन चावचर्वितचर्वणेन मन्थराण्यलसानि यानि कुरङ्ग-

शतानि कुरङ्गाणां विन्दुचित्राणां मृगभेदानां शतानि तैराश्रितेषु सेवितेषु तथा भागीर-
ध्

थ्
याः स्वर्णद्याः शिशिरशीकरैः शीतलजलकणैः शीतलेषु । तथा रोहन्ति महार्हाण्युत्त

मानि फलानि कन्दलानि मूलानि च तैः सुन्दरेषु । 'कन्दली वीरुत्तद्भेदमृगभेदयोः ।

कपालमूलयोः' इति मङ्गःखः । एवंविधेषु तुहिनभूधरस्य हिमालयस्य कंदरेषु गुहासु ।

'दरी तु कंदरा वा स्त्री' इत्यमरः । बद्धमास्पदं निवासो यैस्ते ॥ धन्या भाग्यवन्तः

अवधानना अवधानमेकाप्ग्रतैव धनं येषां ते धनादिसंबन्धबन्धं धनादेः आदिशब्देन

कान्तासुतादेः संबन्ध एव बन्धो बन्धनं तमवधूय त्यक्त्वा समाधिमात्ममनसोरैक्यं
भि

धि
या बुद्ध्या अभिधियन्तोऽधिगच्छन्तः गलदनल्पं महद्विकल्पानां जालं यत्र तत् परं

ज्योतिः परज्योतीरूपं परमात्मानं भगवन्तं परमशिवमनन्तमपारमन्तर्हृदि अव-

लोकयन्ति । ज्ञानचक्षुषेत्यर्थः ॥ युग्मम् ॥

 
धन्या भजन्ति नृपवेश्मसु वेत्रिवक्त्र-

हुंकारकातरधियस्तरुणेन्दुमौलिम् ।

वैराग्यनिर्वृतमनस्विजनावकीर्ण-

स्वर्गापगा पुलिनबाललतालयेषु ॥ ३७ ॥
 

 
न्या इति । नृपवेश्मसु राजसद्मसु वेत्रिणां द्वाःस्थानां यानि वक्राणि तैर्हुहुंकारः

मा याह्यन्तरिति हुंकरणं तेन कातरा दीना धीर्बुद्धिर्येषां तादृशाः प्राग्धन्या भाग्यवन्तो

जनाः । पुनर्विरक्तो वैराग्येण निर्वृतः संयतचित्तश्चासौ मनस्विजनस्तेनावकीर्णानि यानि

स्वर्गापगापुलिनानि गङ्गातटानि तेषु या बाला लतास्तासामालयेषु स्थानेषु पर्णशा-

लादिकेषु तरुणेन्दुमौलिं बालेन्दुचूडामणिणिं श्रीशिवं भजन्ति । वाङ्मनःकायकर्मभि

राराधयन्तीत्यर्थः ॥
 

 
सन्तः स्मरन्ति शशिखण्डशिखण्डसेवा-

हेवाकिनः सुरसरित्पुलिनस्थ[^१]लेषु ।

लक्ष्मीलवोल्लसदमन्दमदावलेप -
 
८१
 

भूपालबालिशविलङ्घनविष्ठप्लवानाम् ॥ ३८ ॥
 

 
सन्त इति । सन्तः पण्डिताः । 'सन्सुधीः कोविदो बुधः' इत्यमरः । सज्जनाश्च । श-

शिखण्ड: शिखण्डे यस्य स तस्य श्रीशिवस्य सेवायां हेवाकिनो व्यसनिनः सुरसरित्पुलि-

नस्थलेषु गङ्गातीरभूमिषु लक्ष्मीलवेनोल्लसन्नमन्दो मदेनावलेपोऽहंकारो येषां ते तादृशा ये

 
[^
]. 'स्थलीषु' इति ख- पाठः.
 
११
 
Digitized by Google