This page has not been fully proofread.

८०
 
काव्यमाला ।
 
मानी तद्वद्धवलास्तेषां हविर्भुजां देवानामिमा विभूतयः संपदोऽणिमाद्यष्टकरूपा प्रभुप्रसा-
दप्रभवाः श्रीशिवानुग्रहलभ्यास्तत्प्रसादेनैव लभ्याः । तेषां हविर्भुजां केषामित्याह - हे
अधन्येत्यध्याहारः । यत्तर्पणमात्रकाम्यया येषां देवानां तर्पणमात्रस्य संतर्पणमात्रस्य
काम्या अभिलाषस्तया हेतुभूतया दयास्पदं दयाकरणपात्रं ये प्राणिनः पशवस्तेषामुप-
घातेन हिंसया पातकं करोषि । यत्प्रसादलेशादणिमाया अष्टौ विभूतयो देवैरपि प्राप्ता-
स्तस्यैवाराधनं किं न करोषीत्यर्थः ॥ सखे इति । हे सखे प्रतिग्रहो दानादिः, अध्या-
पनं शिष्याणाम्, तथा याजनम्, तान्यादौ येषां तैः कर्मभिर्धनस्यार्जनं प्रति सखेदस्य
सयत्नस्य ते वायुरिव प्रतिक्षणं सदागतिरायुः प्रयाति गच्छति । अतस्ते तवेहितं पूर्वो-
क्तमध्यापनादिचेष्टितं कर्तृ इङ्गितमभिप्रेतम् । श्रीशिवाराधनमित्यर्थः । निहन्ति । कस्य ।
तव । ईहितं किमर्थम् । ऋतवे यज्ञाय । पूर्वोक्तवृत्ताभिप्रायस्यैवैतत्समर्थनम् ॥ अत इति ।
सखे इत्यध्याहारः । हे सखे, अतः पूर्वोक्तकिमङ्ग मङ्गल्येत्यादि वृत्तत्रयार्थाभिप्रायाद्धेतोः
स्वतः प्रार्थितानां संपदामणिमाद्यष्टविभूतीनां पदं स्थानं कदर्थनया पीडया हीनम्, ए-
नसा पातकेनाप्यदीनं न दीनम्, तथा आनन्दस्य परमानन्दस्य भुव उत्पत्तेनिंदानमा-
दिकारणम्, स्वयंभुवोऽनादेः श्रीपरमशिवस्य पादाम्बुजसेवनोत्सवं पदब्जसेवोत्सवं भज-
स्व ॥ चक्कलकम् ॥
 
1
 
अक्लेशपेशलमलवंचकृतान्तदूत-
हुंकार भैङ्गभिदुरं दुरितेन्धनाग्निम् ।
को नाम नामयहरं हरपादपद्म-
सेवासुखं सुमतिरन्वहमाद्रियेत ॥ ३४ ॥
 
अक्लेशेति । अविद्यमानाः क्लेशा: पश्च अविद्यादयो यस्मिंस्तत्तादृशं पेशलं कोमलं
च । अक्लेशेनानायासेन पेशलं वा । तथा अलङ्घया अनिवार्या ये कृतान्तदूता रविज
दूतास्तेषां हुंकारस्तेन भङ्गः कम्पस्तस्य भिदुरं भेदनशीलम् । तथा दुरितं पापमेवेन्धनं
काष्ठं तस्याग्निम् । दाहकमित्यर्थः । तथा आमयं जन्मजरामरणमहारोगं हरति ताह-
शम् । हरपादपद्मसेवासुखं श्रीशिवपादाब्जसेवासुखं को नाम न सुमतिर्धीमानन्वहं प्र-
'त्यहमाद्रियेत । अपि तु सर्व एवाद्रियेतेत्यर्थः ॥
 
रोमन्थमन्थरकुरङ्गशताश्रितेषु
भागीरथी
शिशिरशीकरशीतलेषु ।
रोहन्महार्हफलकन्दलसुन्दरेषु
 
बडास्पदास्तुहि नभूधरकंदरेषु ॥ ३५ ॥
धन्याः समाधिमवधानधना धनादि-
संबन्धबन्धमवधूय धियाधियन्तः ।
 
१. 'भक्तिमिदुरं' इति ख- पाठ:. २. 'धिया धयन्तः' इति स्व-पाठः.
 
Digitized by Google