This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
त्याशयः । तथा चैतद्द्वृत्ताभिप्रायानुसारेण ममापि वृत्तमिदम् – 'वीक्षे न यत्र नयनंत्रि-

तयाभिरामं राकेन्दुताजे॑तर्जि मुखमीश्वर तावकीनम् । दासस्य नाथ कृपया भवता वितीर्णे
णं
सायुज्यमीदृगपि वेद्मि विडम्बनं मे ॥" इति ॥
 

 
इदानीं 'वरं भवेदप्यवरं कलेवरं' इत्यस्यैव वृत्तस्याभिप्रायं विस्तरेण समर्थयति-

क्व नीलकण्ठायतनोपसर्पणस्फुटोपकारौ चरणौ महागुणौ ।

क्व चाञ्जनोद्वर्तनचर्चनादिभिः पुरारिपूजार्पणतत्परौ करौ ॥ २५ ॥

 
क्व नाम नामग्रहणोत्सवं विभोरभि प्रवृत्ता रसना दिने दिने ।

क्व चाद्रिपुत्रीपतिपादपङ्कजस्फुरद्र जोराजिविराजितं शिरः ॥ २६ ॥
क्व ढ

 
क्व दृ
क्चिरं पारितचन्द्रशेखरस्वरूपसौभाग्यविलोकनस्पृहा ।

क्व संतताकर्णित दर्पकद्विषद्विचित्रिचारित्रवित्रिता श्रुतिः ॥ २७ ॥

 
क्व निर्धुतानल्पविकल्पविष्ठप्लवत्रिलोचनध्याननिबन्धनं मनः ।
क्व

क्व [^१]
चापवर्गोऽयममार्ग एव यः स्मरारिसेवासुखसर्वसंपदाम् ॥२८॥

 
इदं विदॆ[^२]विदन्तः सुधियो भियोज्झिताः समाधिमाधिच्छिदमाश्रिता अपि ।

प्रभुप्रणामस्तुतिचिन्तनार्चनस्फुटोपयोगं बहु मन्वते वपुः ॥ २९ ॥

(पञ्चभिः कुलकम् )
 

 
क्व नीलकण्ठेति, क्व नामेति, क्व दृक्चिरमिति, क्व निर्धूतेति, इदं विदन्त इति, पञ्चभिः

कुलकम्। इदं विदन्तोऽपीति । अष्टाङ्गेन योगेनात्ममनसोरैक्यं समाधिः । तथा चोक्तम्-

'अम्बुसैन्धवयोरैक्यं यथा भवति योगतः । तथात्ममनसोरैक्यं समाधिरभिधीयते ॥' इति ।

समाधिः तं उप समीपे आधयो जन्मजरामरणादिपीडा उपाधयः । तान्भिनत्तीति तादृशं

समाधिमाश्रिता अपि भिया संसारजत्रासेनोज्झिता अपि सुधियो विमलधिय इदं पूर्वो

क्तप्रकारेण निर्णीतं विदन्तो जानन्तो वपुः शरीरमेव बहु मन्वते । अत्र हेतुमाह-

भुस्त्रिजगदीशः परमेश्वरस्तस्य यः प्रणामोऽष्टाङ्गः, स्तुतिः कीर्तनम्, चिन्तनं तदेकता-

ध्यानम्, अर्चनं च तेषु स्फुटो व्यक्तः तान्येव वा स्फुटो व्यक्त उपयोगः प्रयोजनं यस्य

स तादृशम् । इदं किं विदन्त इत्याह – क्व नीलकण्ठेति । नीलकण्ठस्य श्रीशिवभट्टार-

कस्य यदायतनं स्वयंभ्वादिस्थानेषु देवागाररूपं तत्र यदुपसर्पणं समोपगमनं तेन स्फुट

उपकारो ययोस्तौ अत एव महान्गुण उक्तलक्षणो ययोस्तौ चरणौ पादौ । भक्तानामिति

शेषः । क्व भवतः, स्मरारिसेवायाः सुखं परमानन्द एव सर्वसंपदः तासाममार्गोऽगोचरो-

ऽपवर्गो मोक्षः क्व वा भवति । 'दुःखेभ्योऽपवर्जनमपवर्गः' इति स्वामी । इत्यप्ग्रिमे च-

तुर्थे वृत्ते संबन्धः । एतादृशौ चरणौ क्व । कदाचित्परमेश्वरानुग्रहेण लब्धायामपि
 

 
[^
]. 'वापवर्गो' इति ख- पाठ:.
[^
]. 'वदन्तः' इति ख- पाठः.
 
Digitized by Google