This page has not been fully proofread.

काव्यमाला ।
 
त्याशयः । तथा चैतद्द्वृत्ताभिप्रायानुसारेण ममापि वृत्तमिदम् – 'वीक्षे न यत्र नयनंत्रि-
तयाभिरामं राकेन्दुताजे॑ मुखमीश्वर तावकीनम् । दासस्य नाथ कृपया भवता वितीर्णे
सायुज्यमीहगपि वेद्मि विडम्बनं मे ॥" इति ॥
 
इदानीं 'वरं भवेदप्यवरं कलेवरं' इत्यस्यैव वृत्तस्याभिप्रायं विस्तरेण समर्थयति-
क्व नीलकण्ठायतनोपसर्पणस्फुटोपकारौ चरणौ महागुणौ ।
क्व चाञ्जनोद्वर्तनचर्चनादिभिः पुरारिपूजार्पणतत्परौ करौ ॥ २५ ॥
क्व नाम नामग्रहणोत्सवं विभोरभि प्रवृत्ता रसना दिने दिने ।
क्व चाद्रिपुत्रीपतिपादपङ्कजस्फुरद्र जोराजिविराजितं शिरः ॥ २६ ॥
क्व ढक्चिरं पारितचन्द्रशेखरस्वरूपसौभाग्यविलोकनस्टहा ।
क्व संतताकर्णित दर्पकद्विषद्विचित्रचारित्रपवित्रिता श्रुतिः ॥ २७ ॥
क्व निर्धुतानल्पविकल्पविष्ठवत्रिलोचनध्याननिबन्धनं मनः ।
क्व चापवर्गोऽयममार्ग एव यः स्मरारिसेवासुखसर्वसंपदाम् ॥२८॥
इदं विदॆन्तः सुधियो भियोज्झिताः समाधिमाधिच्छिदमाश्रिता अपि ।
प्रभुप्रणामस्तुतिचिन्तनार्चनस्फुटोपयोगं बहु मन्वते वपुः ॥ २९ ॥
(पञ्चभिः कुलकम् )
 
क्व नीलकण्ठेति, क्व नामेति, क्व दृक्चिरमिति, क्व निर्धूतेति, इदं विदन्त इति, पञ्चभिः
कुलकम्। इदं विदन्तोऽपीति । अष्टाङ्गेन योगेनात्ममनसोरैक्यं समाधिः । तथा चोक्तम्-
'अम्बुसैन्धवयोरैक्यं यथा भवति योगतः । तथात्ममनसोरैक्यं समाधिरभिधीयते ॥' इति ।
समाधिः तं उप समीपे आधयो जन्मजरामरणादिपीडा उपाधयः । तान्भिनत्तीति तादृशं
समाधिमाश्रिता अपि भिया संसारजत्रासेनोज्झिता अपि सुधियो विमलधिय इदं पूर्वो
क्तप्रकारेण निर्णीतं विदन्तो जानन्तो वपुः शरीरमेव बहु मन्वते । अत्र हेतुमाह-
भुस्त्रिजगदीशः परमेश्वरस्तस्य यः प्रणामोऽष्टाङ्गः, स्तुतिः कीर्तनम्, चिन्तनं तदेकता-
ध्यानम्, अर्चनं च तेषु स्फुटो व्यक्तः तान्येव वा स्फुटो व्यक्त उपयोगः प्रयोजनं यस्य
स तादृशम् । इदं किं विदन्त इत्याह – क्व नीलकण्ठेति । नीलकण्ठस्य श्रीशिवभट्टार-
कस्य यदायतनं स्वयंभ्वादिस्थानेषु देवागाररूपं तत्र यदुपसर्पणं समोपगमनं तेन स्फुट
उपकारो ययोस्तौ अत एव महान्गुण उक्तलक्षणो ययोस्तौ चरणौ पादौ । भक्तानामिति
शेषः । क्व भवतः, स्मरारिसेवायाः सुखं परमानन्द एव सर्वसंपदः तासाममार्गोऽगोचरो-
ऽपवर्गो मोक्षः क्व वा भवति । 'दुःखेभ्योऽपवर्जनमपवर्गः' इति स्वामी । इत्यप्रिमे च-
तुर्थे वृत्ते संबन्धः । एतादृशौ चरणौ क्व । कदाचित्परमेश्वरानुग्रहेण लब्धायामपि
 
१. 'वापवर्गो' इति ख- पाठ:. २. 'वदन्तः' इति ख- पाठः.
 
Digitized by Google