2023-02-23 21:27:11 by ambuda-bot
This page has not been fully proofread.
७ स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
मरुधन्वानौ' इत्यमरः । तत्र ये भ्रमन्तो जनास्तेषां क्लमः खेदस्तं छिनतीति तादृशा-
न्मार्गमहीरुहान्मार्गे छायातरोरप्यमन्दानन्ददायी नमः शिवायेति शब्द इत्यर्थः । तथा
कलिन्दकन्यायाः कालिन्द्या यमुनायाः सलिलौघेन संगतो मिलितो यस्त्रिमार्गगाम्भोभरो
गङ्गासलिलौघस्तस्य यः संप्लवो जलपूरस्तस्मादपि, तथा सरस्वत्या वाग्देव्या यः सौ-
भगसारः सूक्तिपाटवं तेन संभृतः पूर्णो यः प्रसन्नः प्रसादगुणयुक्तो गम्भोरो मन्द-
धिषणैर्दुरवबोधाभिप्रायः कविक्रमः कविपदक्रमस्तस्मादपि तथा कुरङ्गनाभी
कस्तूरिका सा च घनं कुङ्कुमं कश्मीरजं च ताभ्यामङ्कितौ स्तनौ यस्यास्तादृशी या
अङ्गना वरस्त्रो तस्या आलिङ्गनस्य विलासो दृढालिङ्गनमालिङ्गनमेव वा विलासस्तस्मा-
दप्यमन्दमानन्दरसामृतद्रवं स्रवन्नित्यर्थः ॥ तिलकम् ॥
एणनाभी
७७
विचिन्तयञ्जीवनमेव जीवनं समर्थयन्पार्थिवमेव पार्थिवम् ।
विभावयन्वैभवमेव वैभव कदाश्रये शंकरमेव शंकरम् ॥ २३ ॥
अहं कदा कस्मिन्काले शुभसमये शंकरं शं कैवल्यमात्यन्तिकदुःखनिवृत्तिरूपं करो-
ति शंकरः । तं शंकरं श्रीशिवभट्टारकं श्रये शरणं व्रजामि । किं कुर्वन् । जीवनं जीव-
धारणं जीवनं सलिलमर्थाच्चपलं प्रवहद्विचिन्तय आनन् । यद्वा जीवनं जलं विभुसंबन्धि
गङ्गाजलम् । 'जीवनं भुवनं वनम्' इत्यमरः । जीवनमाप्यायकं स्वदेहधारणतृप्तिकरं वि-
चिन्तयन् । कोऽर्थः । गङ्गाजलमात्रपानेनैव देहतर्पणं करिष्य इति चिन्तयन्नित्यर्थः ।
तथा पार्थिवं राजानं पृथिव्या मृद्रूपया पञ्चमहाभूत[व्यापि]मुख्यया निर्मितः
पार्थिवस्तादृशं विशेषेण चिन्तयन् । यद्वा पार्थिवं मृण्मयं लिङ्गमेव पार्थिवं वदान्यं
राजानं समर्थयन्हढीकुर्वन् । य एत ) दुक्तं भवति - मृण्मयशिवलिङ्गार्चनेनैव सर्वम
नोरथपूरणं भविष्यति किंचिन्मात्रदायिनृपतिसेवनं न विधास्य इति संभावयनित्यर्थः ।
'अश्लीलं किमपि पुरुषार्थप्रसवि ते' इत्युक्तेः । तथा वै प्रसिद्धौ । भवं संसारं वैभवमा-
घिपत्यमेव कतिपयदिनस्थापिनमसारं विचिन्तयन् । अथवा भवं संसारं वैभवं विभुसं-
बन्धि एव विभावयन् विशेषेण भावयन् । 'सर्वे शिवमयं जगत्' इति निश्चिन्वन्सन्कदा
परमेश्वरमाश्रय इति ॥
वरं भवेदप्यवरं कलेवरं परं हराराधनसाधनं हि यत् ।
न तु क्रतुध्वंसिनिषेवणोत्सवं विनिघ्नती मुक्तिरयुक्तिपातिनी ॥२४॥
अपिशब्दो भिन्नक्रमः । अवरमधमं वस्तुतो विचार्यमाणेऽपवित्रमेव तत्कलेवरं
शरीरं वरमुत्कृष्टमतीवमान्यं भवति । तत्किमित्याह – यत्कलेवरं परं केवलं हराराधन-
साधनं हारस्याराधनं साधयतीति तादृशम् । धन्यं तदेवेत्यर्थः । न पुनरुक्तिः (?) वरं
मा भवत्वित्यर्थः । अत्र हेतुमाह - 'क्रतुध्वंसी वृषध्वजः' इत्यमरः । ऋतुध्वंसिनः श्री-
शिवस्य निषेवणं वाङ्मनःकायकर्मभिनित्यमुपासनं स एवोत्सवो महोत्सवस्तं विनिघ्नती
विशेषेण घ्नती । श्रीशंभुसेवानन्दं हन्यमानेत्यर्थः । अन्यच्च किंभूता । अयुक्त्या अकस्मा-
देव युक्ति विना श्रीशिवानुग्रहेणापतन्ती । अपि मुक्तिर्न वरा श्रेष्ठेत्यर्थः । कलेवरे शिरः-
करचरणादिभिः परमेश्वरसेवा तावत्साध्यते मुक्तिस्तु निर्देहत्वाच्छिवार्चाविघ्नकारिणी-
Digitized by Google