This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
भजतीति तादृशो वासुकिर्यदीयमौल्याश्रयणाजात इत्यर्थः । अथ च यो निसर्गतः स्वभा

वात्सतां विदुषां पथे गर्हिता निन्दिता स्थितिर्यस्य स तादृशो भवति । तथा मलीमसो

मलिनाशयः । जिह्यं न्याय्याद्विपरीतं गच्छतीति तादृशोऽपि यदाश्रयणात् कुण्डली कु-

ण्डले कर्णकुण्डले यस्य स तादृशः तथा मणियुक्तमौलिमण्डितः । तथा महाभुजंगो

महाकामी । पृथुभोगान्महतो विषयान्भजति तादृशोऽपि भवति स एष गौरीश्वरसंश्रय-

णकल्पवृक्षस्य फलोद्गमो भवतीत्यर्थः ॥ यदपीति । अजस्रं सदैव जडेन जलेन । लडयो-

रैक्यात् । अब्धेजीर्जातत्वात्सततं जलसंगमे उचितः । तथा कलामय एककलामयः । अत

एव स्वभावेन तुच्छः । एवंभूतो यद्विधूतदोषोदयं विधूतो दूरीकृतो दोषा रात्रावुदयो येन ।

दिवा च रात्रावपि तत्रभासनात् । तथा सुधामयममृतमयमुज्ज्वलं शुभ्रं वपुर्यद्वहति स

एष गौरीश्वरसंश्रयणकल्पवृक्षोत्थफलोद्गम इत्यर्थः । अथ च योऽपि नरो जडानां मूढानां

संगमे उचितस्तथा स्वभावेन तुच्छो नीचप्रकृतिः तथा कलामयः शिल्पी सोऽपि गौरी-

श्वरचरणाश्रयणात्कलङ्केन पातकादिकलङ्केन निर्दयतया वा मुक्तं सुधामममृतमयमिव

विधूतो गतो दोषाणामुदयो यस्य तत्तादृशमुज्ज्वलं वपुर्वहति यत्स एष श्रीशिवानुग्रह

फलोद्गम इत्यर्थः । इदानीं पूर्वोक्तार्थसमुच्चयेन सहृदयजनं बोधयत्यवशिष्टवृत्तार्धेनामुमि-

त्यादिना – हि निश्चये । अमुं गौरीश्वराश्रयं हिता आयतिरागामिकालो यस्य स तादृशः

को नाम सचेतनश्चेतनावाञ्जनः समासादयितुं प्राप्तुं न यतेत यत्नवान्भवेत् ॥ संदानि-

तकम् ॥
 

 
निदाघनिर्दग्धमहामरुभ्रमक्मच्छिदो मार्गमहीरुहादपि ।

कलिन्दकन्यासै[^१]सलिलौघसंगत त्रिमार्गगाम्भोभरसंप्लवादपि ॥ २० ॥

 
सरस्वतीसौभगसारसंभृतप्रसन्नगम्भीरपदक्रमादपि ।

कुरङ्गनाभीघनकुङ्कुमाङ्कितस्तनाङ्गनालिङ्गनविभ्रमादपि ॥ २१ ॥

 
अमन्दमानन्दसुधारसद्रवं स्त्रवन्नवन्ध्यं भवदुःखिते हृदि ।

इयत्यमुष्मिन्भुवनाध्वनि ध्वनिर्नमः शिवायेति चमत्करोति मे ॥ २२ ॥
 

(तिलकम्)
 

 
निदाघेति, सरस्वतीति, अमन्देति, तिलकम् । इयति दूरे भुवनाध्वनि भूलोकमार्गे

भुवनाध्वनि वा आगमशास्त्रप्रसिद्धेऽमुष्मिन् श्रीशिवचरणाम्बुजभावनयोक्तो नमः शिवा-

येतिशब्दो भवदुःखिते भवेत्युपलक्षणम् । भवादिदुःखिते जन्मजरामरणादिदुःखिते मे

मम हृदि हृदये अवन्ध्यं सफलम् । परं विश्रान्तिदायित्वात् अमन्दमानन्दसुधार-

सद्रवं परमानन्दामृतरसप्रवाहं स्रवन्मे मम एतेभ्यः सर्वेभ्यः सकाशाच्चमत्करोति अत्यन्तं

चमत्करोति । एतेभ्यः केभ्य इत्याह - निदाघेति । 'अथ ग्रीष्मे निदाघः स्वेदतापयोः '

इति··· । निदाघेन ग्रीष्मोत्थसंतापेन निर्दग्धो यो महामरुर्महान्निर्जलो देशः । 'समानौ
 

 
[^
]. 'सलिलौघलचिङ्गित' इति ख- पाठः.
 
Digitized by Google