2023-02-23 21:27:11 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
भजतीति तादृशो वासुकिर्यदीयमौल्याश्रयणाजात इत्यर्थः । अथ च यो निसर्गतः स्वभा
वात्सतां विदुषां पथे गर्हिता निन्दिता स्थितिर्यस्य स तादृशो भवति । तथा मलीमसो
मलिनाशयः । जिह्यं न्याय्याद्विपरीतं गच्छतीति तादृशोऽपि यदाश्रयणात् कुण्डली कु-
ण्डले कर्णकुण्डले यस्य स तादृशः तथा मणियुक्तमौलिमण्डितः । तथा महाभुजंगो
महाकामी । पृथुभोगान्महतो विषयान्भजति तादृशोऽपि भवति स एष गौरीश्वरसंश्रय-
णकल्पवृक्षस्य फलोद्गमो भवतीत्यर्थः ॥ यदपीति । अजस्रं सदैव जडेन जलेन । लडयो-
रैक्यात् । अब्धेजीतत्वात्सततं जलसंगमे उचितः । तथा कलामय एककलामयः । अत
एव स्वभावेन तुच्छः । एवंभूतो यद्विधूतदोषोदयं विधूतो दूरीकृतो दोषा रात्रावुदयो येन ।
दिवा च रात्रावपि तत्रभासनात् । तथा सुधामयममृतमयमुज्ज्वलं शुभ्रं वपुर्यद्वहति स
एष गौरीश्वरसंश्रयणकल्पवृक्षोत्थफलोद्गम इत्यर्थः । अथ च योऽपि नरो जडानां मूढानां
संगमे उचितस्तथा स्वभावेन तुच्छो नीचप्रकृतिः तथा कलामयः शिल्पी सोऽपि गौरी-
श्वरचरणाश्रयणात्कलङ्केन पातकादिकलङ्केन निर्दयतया वा मुक्तं सुधामयममृतमयमिव
विधूतो गतो दोषाणामुदयो यस्य तत्तादृशमुज्ज्वलं वपुर्वहति यत्स एष श्रीशिवानुग्रह
फलोद्गम इत्यर्थः । इदानीं पूर्वोक्तार्थसमुच्चयेन सहृदयजनं बोधयत्यवशिष्टवृत्तार्धेनामुमि-
त्यादिना – हि निश्चये । अमुं गौरीश्वराश्रयं हिता आयतिरागामिकालो यस्य स तादृशः
को नाम सचेतनश्चेतनावाअनः समासादयितुं प्राप्तुं न यतेत यत्नवान्भवेत् ॥ संदानि-
तकम् ॥
निदाघनिर्दग्धमहामरुभ्रमक्कमच्छिदो मार्गमहीरुहादपि ।
कलिन्दकन्यासैलिलौघसंगत त्रिमार्गगाम्भोभरसंठवादपि ॥ २० ॥
सरस्वतीसौभगसारसंभृतप्रसन्नगम्भीरपदक्रमादपि ।
कुरङ्गनाभीघनकुङ्कुमाङ्कितस्तनाङ्गनालिङ्गनविभ्रमादपि ॥ २१ ॥
अमन्दमानन्दसुधारसद्रवं स्त्रवन्नवन्ध्यं भवदुःखिते हृदि ।
इयत्यमुष्मिन्भुवनाध्वनि ध्वनिर्नमः शिवायेति चमत्करोति मे ॥ २२ ॥
(तिलकम्)
निदाघेति, सरस्वतीति, अमन्देति, तिलकम् । इयति दूरे भुवनाध्वनि भूलोकमार्गे
भुवनाध्वनि वा आगमशास्त्रप्रसिद्धेऽमुष्मिन् श्रीशिवचरणाम्बुजभावनयोक्तो नमः शिवा-
येतिशब्दो भवदुःखिते भवेत्युपलक्षणम् । भवादिदुःखिते जन्मजरामरणादिदुःखिते मे
मम हृदि हृदये अवन्ध्यं सफलम् । परं विश्रान्तिदायित्वात् अमन्दमानन्दसुधार-
सद्रवं परमानन्दामृतरसप्रवाहं स्रवन्मे मम एतेभ्यः सर्वेभ्यः सकाशाच्चमत्करोति अत्यन्तं
चमत्करोति । एतेभ्यः केभ्य इत्याह - निदाघेति । 'अथ ग्रीष्मे निदाघः स्वेदतापयोः '
इति··· । निदाघेन ग्रीष्मोत्थसंतापेन निर्दग्धो यो महामरुर्महानिर्जलो देशः । 'समानौ
१. 'सलिलौघलचित' इति ख- पाठः.
Digitized by Google