This page has been fully proofread once and needs a second look.

७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
निसर्गतः सत्पथगर्हितस्थितिर्मलीमसो जिह्मगतिश्च यः फणी ।

स कुण्डली यन्माणमणिमौलिमण्डितो महाभुजंगः पृथुभोगभागपि ॥ १७ ॥

 
यदप्यजस्त्रं जडसंगमोचितः स्वभावतुच्छः शशभृत्कलामयः ।

कलङ्कमुक्तं वहते सुधामयं विधूतदोषोदयमुज्ज्वलं वपुः ॥ १८ ॥

 
स एष गौरीश्वरसंश्रयात्मनः फलोद्गमः कल्पमहामहीरुहः ।

अमुं समासादयितुं हितायतिर्यतेत को नाम न चेतनो जनः ॥ १९ ॥

(संदानितकम् )
 
७५
 
[^१]
 
अचेतन इति, निसर्गत इति, यदपीति, स एष इति, चतुर्भिः संदानितकम् । संदा-

नितकं चतुर्भिर्वृत्तैरेकान्वयसंबन्धेन । गौरीश्वरोऽर्धनारीश्वरः स्वेच्छया श्रीशिवः तस्य

संश्रयो वाङ्मनःकायकर्मभिस्तत्पादाश्रयणं स एवात्मा स्वरूपं यस्य स तादृशात् । क

ल्पयति सकलाभीष्टकल्पनाः प्रार्थयितुर्जनस्य कल्पः कल्पश्चासौ महामहीरुट् महावृक्षः ।

हलन्तो महीरुह्शब्दः । तस्मात्कल्पमहामहीरुहः श्रीशिवाश्रयणकल्पवृक्षात् स एष अ-

चेतन इत्यादिवृत्तत्रये वर्णितः फलोद्गमो भवति । स एष क इत्याह – अचेतन इत्यादि ।

किल प्रसिद्धौ । अचेतनो निश्चेतनः । स्थावरत्वात् । तथा च कुर्भूमिः कौ भूमौ स्थितिः

सैव प्रिया हृद्या यस्य । तथा पृथग्विधानि नानाविधानि यान्युपाधिशतानि उप समीपे

आधय: पीडा वनगजदुष्टसत्त्वादिकृतास्तेषां शतेन क्षत आशयो मध्यं यस्य स ईदृशो

यो गिरिः शैलः कैलासः स श्रीशिवनिवासस्थानौचित्यात् । किंभूतः । शुद्धमानसः शुद्धं

मानसं मानसाख्यसरोविशेषो यस्य सः । मुनीन्द्रैश्चिरं बहुकालं पादतले पादाः प्रत्यन्त-

पर्वतास्तेषां तले यन्निषेव्यते स एष गौरीश्वरसंश्रयणकल्पवृक्षफलोद्गम इत्यर्थः । अथ च

यः किल मर्त्योऽचेतनो मन्दबुद्धिः कुत्सिता चासौ स्थितिर्मर्यादा सैव प्रिया यस्य स ता-

दृशः तथा पृथग्विधानि यान्युपाधीनां छिद्राणां शत्रुविहितपराभवानेकविधव्याधिरू-

पाणां शतानि तैः क्षत आशयश्चित्तं यस्य स तादृशोऽपि गौरीश्रचरणाम्बुरुहैकाश्रयः

सञ्
शुद्धमानसः शुद्धं मानसं चित्तं यस्य स तादृशः सन्मुनीन्द्रैरपि पादतले चरणतले

निषेव्यते स एष शंभुचरणाश्रयणकल्पवृक्षफलोद्गम इत्यर्थः ॥ निसर्ग इति ।

फणी निसर्गतः स्वभावतः सत्पथे राजमार्गादौ गर्हिता कुत्सिता गतिर्यस्य । भुजंगत्वात् ।

तथा मलीमस: श्यामवर्णः । जिह्मगतिः कुटिलगतिश्च भवति सोऽपि फणी नाग एवंवि-

धविशेषणविशिष्टो यो ज्ञातः । किंभूतः । कुण्डली "आसीनस्य कुण्डलमिवास्येति कु-

ण्डली' इति पूर्वे । वयं तु – कुण्डलमनुकरोतीति कुण्डलशब्दात्प्रातिपदिकात्स्वार्थणिज

न्ताद् घञर्थणिजर्थके कुण्डली इति ब्रूमहे" इति रायमुकुट्याम् । मणिमौलिमण्डितो

मणियुक्त श्वासौ मौलिस्तेन मण्डितः शोभितः । तथा महाभुजंगः भुजं कुटिलं गच्छतीति

भुजंगः महांश्चासौ भुजंगः फणिराजः । तथा पृथुभोगान् पृथुफणान् पृथुभोगं शरीरं वा
 
-
 

 
[^
]. ख- पुस्तके 'संदानितकम्' इत्यस्य स्थाने 'चक्कलकम्' इत्यस्ति.
 
Digitized by Google