This page has been fully proofread once and needs a second look.

७४
 
काव्यमाला ।
 
कृपाविपाकेन विना यथा मतिर्यथा सुपुत्रेण विना गृहस्थितिः ।

तथैव शोच्या हरिणाङ्कशेखरस्तवोपयोगेन विना सरस्वती ॥ १४ ॥
 

(तिलकम्)
 

 
यथा हि शीलेनेति, यथा विना द्यौरिति, कृपाविपाकेनेति, तिलकम् । शीलेन स-

दाचारेण विना यथा कुलस्त्री शोच्या शोचनीया भवति, विवेकेन कार्याकार्यविचारेण
विना यथा मनीषिता वैदुष्यं शोच्या भवति, यथा च श्रुतिः श्रवणं सदर्थबोधेन संस्ता-

त्त्विको योऽर्थस्तस्य बोधो ज्ञानं तेन विना यथा शोच्या भवति । 'भुजङ्गः खिङ्ग सर्पयोः ।

कामुकेऽपि' इति मङ्गःखः । महीभुजंगेन पृथ्वीपतिना नेत्रा विना यथा पृथ्वी शोच्या,

अरविन्दबन्धुना कमलबान्धवेन रविणा विना यथा द्यौर्विंयच्छोच्या, यथा शशाङ्केन

चन्द्रमसा विना निशीथिनी रात्रिः शोच्या भवति, विदग्धवर्गेण विदग्धानां मनोषिणां

निपुणकविकर्मकृतां वर्गेण समूहेन विना यथा सभा परिषच्छाछोच्या भवति । विभूतिर्महै-

श्वर्यमपि विनयेन क्षमापरपर्यायेण विना यथा शोच्या, मतिर्धिषणा कृपाया दीनजनोप-

काररूपाया विपाक आधिक्यं तेन विना यथा शोच्या, सुपुत्रेण गुणवता तनयेन विना

गृहस्थितिः । तात्स्थ्यात्ताच्छन्द्य (?) इति गृहशब्देन गृहस्थ उच्यते । गृहस्थितिर्गृहस्थ

स्थितिर्गृहमर्यादा वा यथा शोच्या, तथैव हरिणाङ्कशेखरस्तवोपयोगेन चन्द्रशेखरस्तुत्यु
-
पयोगेन विना सरस्वती । कवेरिति शेषः । कविवाणी तथैव शोच्येत्यर्थः । 'भगवत्प-

दाम्बुजस्तवोपयोगेन' इति च पाठो दृश्यते । कुनृपतिप्रभृतिस्तुतिरूपं प्रलापं विहाय

श्रीशिवस्तुत्यमृतरसासिक्तचेतोभिः कंविवरैस्तत्स्तुतिकथास्वेवाहर्निशं यत्नो विधेय

इत्यर्थः ॥ तिलकम् ॥
 

 
इदानीं सकलं विहाय श्रीशिवभक्तिप्रसङ्गेण मनो विनोदयति -
 

 
रमापि देवी मम नो मनोरमा क्षमापि मा[^१]मभ्यवपत्तुमक्षमा ।

मम क्षमैका भगवत्परा पुनर्भवार्तिभङ्गे सरसा सरस्वती ॥ १५ ॥
 

 
रमादेवी लक्ष्मीरपि मम संयतचित्तस्य मनोरमा हृद्या न । तथा क्षमापि । अत्रापि

देवीत्यध्याहारः । 'क्षितिक्षान्त्यौ क्षमे' इत्यमरः । क्षमादेवी पृथ्वीदेव्यपि मामभ्यवपत्तु-

माश्वासयितुम् । जन्मजरामरणार्दितमातुरमित्यर्थ: । सापि न क्षमा न समर्था । अ
त्र
सिद्धान्तपक्षमाह - ममैषा सरस्वती वाणी सरसा सह रसेन तदेकताभावनारसेन वर्तते

या सा तादृशी भवार्तिभङ्गे भवस्य जन्मनः । उपलक्षणमेतत् । भवार्तेर्जन्ममरणार्तेर्भङ्ग-

स्तस्मिन्सैवैका मम वाणी क्षमा भवति । आत्यन्तिकदुःखनिवृत्तिविधायिनी सैवैका भव-

तीत्यर्थः ॥
 

 
अचेतनो यः किल कुस्थितिप्रियः पृथग्विधोपाधिशतक्षताशयः ।

निषेव्यते पादतले स यद्गिरिश्चिरं मुनीन्द्रैरपि [^२]शुद्धमानसः ॥ १६ ॥
 

 
[^
]. 'अभ्यवपातुं' इति क पाठ:.
[^
]. 'शुद्धमानसैः' इति ख- पाठः
 
Digitized by Google