This page has not been fully proofread.

७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
यथाल्पमप्यौषधमुन्मदं गदं यथामृतं स्तोकमपि क्षयाद्भयम् ।
ध्रुवं तथैवाणुरपि स्तवः प्रभोः क्षणादघं दीर्घमपि व्यपोहति ॥१०॥ (युग्मम् )
 
७३
 
मणिः सुसूक्ष्मेति, यथाल्पमिति च युग्मम् । ध्रुवं निश्चये । अणुरप्यतिसूक्ष्मोऽपि
वृत्तैकमात्रः पदैकमात्रः यया कयापि भाषया कृतो वा स्वल्पोऽपि प्रभोस्बिजगदीशस्य
श्रीशिवस्य स्तवो दीर्घमप्यनेकजन्मशतोपार्जितमप्यघं वाङ्मनःकायोपार्जितं पापं क्ष-
णायपोहति विशेषेणापोहति दूरीकरोति । कः कमिवेत्याह- यथा सुसूक्ष्मोऽप्यत्यन्त
सूक्ष्मोऽपि मणिगरुत्मताख्यो मणिभेद उल्पणमुद्भटं विषं गरं व्यपोहति । यथा वा कृ-
शोsपि कणिकामात्रोऽपि वहिरभिः सुमहद्वहुभारसमुचितं तृणं व्यपोहति दहति । यथा
वा शिशुरेकद्विमासीयोऽपि मृगेन्द्र सिंहो गजब्रजं हास्तिकं व्यपोहति हन्ति । तनुर-
त्यन्तसूक्ष्मोऽपि प्रदीपो यथा तमोभरं समस्तमन्धकारं व्यपोहति हन्ति । यथा वाल्प-
मपि रक्तिकामात्रमप्यौषधमुन्मदं महोग्रं रोगमपोहति हन्ति । यथा च स्तोकमपि चु-
लकमात्रमप्यमृतं रसायनं क्षयं जरामृत्युसमर्थ रोगं क्षयं यक्ष्माणं महारोगं वा । 'यक्ष्मा
क्षयः शोषः' इत्यमरः ॥ युग्मम् ॥
 
अमन्दसंदर्भगभीरविभ्रमः प्रेगल्भवैदर्भपरिश्रमः क्रमः ।
 
अवश्यमासाद्य गुणोचितं विभुं बिभर्ति सौभाग्यमभङ्गुरं गिरः ॥ ११ ॥
 

 
कवेरिति शेषः । कवेर्धन्यस्य अमन्दो महान्यः संदर्भः प्रबन्धस्तत्र गभीर: कुशा-
श्रीयधिषणैरेव गम्यो विभ्रम उल्लासो यस्य स तादृशः तथा प्रगल्भः प्रौढो वैदर्भों
विदर्भदेशजः परिश्रमो वैदर्भीरीतिरचनापरिश्रमो यस्य सः । गिरो वाण्या: क्रमः परि-
पाट्या विन्यासो गुणैनिजगदनुग्रहसंसाराम्बुध्युत्तारणादिगुणैरप्युचितं योग्यं विभुं पर-
मेशमासाद्य प्राप्यावश्यमभङ्गुरं पूर्ण सौभाग्यं बिभर्ति । यथा कामिन्याः क्रमो व्यवहारः
सगुणं कामिनमासाद्य सौभाग्यं परमं बिभर्ति तथेत्यर्थः । 'गुणोजितं' इति पाठे गुणैः
सर्वज्ञतातृप्त्यादिभिः षड्भिरूजितं सबलमित्यर्थः ॥
 
अधुना तद्वैपरीत्येन कविवाण्याः शोच्यतां वृत्तत्रयेणाह--
यथा हि शीलेन विना कुलाङ्गना यथा विवेकेन विना मनीषिता ।
सदर्थबोधेन विना यथा श्रुतिर्महीभुजंगेन विना यथा मही ॥ १२ ॥
यथा विना द्यौररविन्दबन्धुना विना शशाङ्केन यैथा निशीथिनी ।
विर्देग्धवर्गेण विना यथा समा विना विभूतिविनयेन वा यथा ॥१३॥
 
१. ' एवं तथैवाणुरपि' इति ख- पाठ : २. प्रसन्नवैदर्भ' इति ख- पाठः ३. 'निशी-
थिनी यथा' इति ख- पाठ:• ४. स्व पुस्तके 'विदग्धवर्गेण -' इत्यादेः, 'कृपाविपा-
केन-' इत्यादेश्वार्धस्य व्यत्ययोऽस्ति.
 
१०
 
Digitized by Google