This page has been fully proofread once and needs a second look.

७२
 
काव्यमाला ।
 
चमूर्जयन्भीजनकानका न काः स यस्य सूनुः क्लमहा महामहाः ।

जटाः स बिभ्रत्तरुणारुणारुणाः श्रियः क्रियाद्वः शुभयाभयाभयाः ॥ ६॥

 
शुभया आभया नित्यप्रभया दीप्त्या उपलक्षितः श्रीशंभुः अविद्यमानं भयं नाशभयं

यासां ताः श्रियो लक्ष्मीरूपा वो युष्माकं क्रियात् । स श्रीशिवः किंभूतः । जटा बिभ्रत् ।

कीदृशीः । तरुणारुणारुणाः तरुणो योऽरुणः सूर्य: । 'मिहिरारुणपूषण:' इत्यमरः । तद्व-

दरुणा रक्ताः । यतो 'धूर्जटिर्नीललोहितः' इत्यत्र 'नीलः कण्ठे लोहितः केशेषु' इति

स्वामी । जटा बिभ्रत् । कपिलकेशो भगवान् इत्यागमः । स क इत्याह - महामहाः

महन्महस्तेजो यस्य स महामहा अतितेजस्वी । क्लमहा क्लमं भक्तजनस्य दुःखं हन्तीति

तादृशः । तथा का न चमूर्जयन् । अर्थाद्दैत्यानां चमूः सेनाः । किंभूता । भीजनकानकाः

भियं परसैन्यस्य जनयन्तीति भीजनका आनकाः पटहा यासु ताः । एवंभूता अपि

चमूर्जयन्यस्य सूनुः स कुमार: सेनानीर्भवति ॥
 

 
मयि [^१]ध्रुवं दृग्भवता बताबता कृपामृतार्द्रा महिता हिताहिता ।

अतस्तवास्तप्रमयामया मया कृता नुतिः सातिशयाशयाशया ॥ ७ ॥

 
ध्रुवं निश्चये । हे शंभो इति शेषः । कृपामृतार्द्रा कृपैवामृतं तेनार्द्रा सरसा । तथा म

हिता पूजिता । सकलजगत्येवेत्यर्थः । तथा हिता हितकारिणी च (दृक् ) अवता रक्षता

भवता त्वया मयि ध्रुवं निश्चयेनाहिता निहिता ( बत) अतो हेतोरस्तप्रमयामया प्रमयो

मृत्युः । 'प्रमयोऽस्त्री दीर्घनिद्रा हिंसा संस्था निमीलनम्' इत्यमरः । आमयो रोगः ।

अस्तौ दूरीकृतौ प्रमयामयौ मृत्युरोगौ यया सा । अस्तः प्रमयो मृत्युरेव वा रोगो महा-

रोगो यया तादृशी तत्र नुतिः स्तुतिः (मया) कृता । कया । सातिशयाशयाशया । सह

अतिशयेन दयादाक्षिण्यादिगुणोत्कर्षेण वर्तते योऽसावाशयः तत्र या आशा परमेश्वरा-

नुग्रहेण शिवाभेदप्रथापरिज्ञानाप्त्याशा तया ॥
 

 
अनभ्रवर्ष प्रतिमं विमत्सरा नरा जरारुम्ड्मरणार्तिभीरवः ।
 

[^२]
मेधा सुधासूतिवतंसशंसनं विहाय घाधावन्ति रसायनाय किम् ॥ ८ ॥

 
विमत्सरा विगतो मत्सरः परोत्कर्षासहनं येषां ते । शान्तमनस्का इत्यर्थः । तथा

जरा रुजो नाना व्याधयः मरणं कालधर्मश्च तैर्या आर्तिः पीडा तस्या भीरवस्त्रस्ता नरास्ता नरा

रसायनाय । जरामृत्युहरणार्थमौषधं रसायनम् । 'कल्प' इति भाषायां प्रसिद्धम् । तस्मै
कि

किं
मुधा व्यर्थे धावन्ति । किं कृत्वा । सुधासूतिवतंसशंसनं सुधासूतिश्चन्द्रोऽवतंसे यस्य

स चन्द्रावतंसः श्रीशिवः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । तस्य

श्रीशिवस्य शंसनं स्तुतिं विहाय । किंभूतम् । अनभ्रवर्षेण प्रतिमा यस्य तत् । अनभ्रव-

र्षवदकस्मात्तदनुग्रहेणाप्तम् । श्रीशिवस्तुतिरसायनामृतेन हि मृत्युत्रासापगमः । अतः

केवलं जरापमृत्युमात्रहरणसमर्थेन रसायनेन किं कार्यमिति भावः ॥

 
मणिः सुसूक्ष्मोऽपि यथोल्बणं विषं कृशोऽपि वह्निः सुमहद्यथा तृणम् ।

शिशुर्मृगेन्द्रोऽपि तथा गजव्रजं तनुः प्रदीपोऽपि यथा तमोभरम् ॥ ९ ॥
 

 
[^
]. 'ध्रुवं या भवता' इति क-पाठ:.
[^
]. 'सुधा' इति स्व-पाठः,
 
Digitized by Google