This page has not been fully proofread.

७२
 
काव्यमाला ।
 
चमूर्जयन्भीजनकानका न काः स यस्य सूनुः क्लमहा महामहाः ।
जटाः स बिभ्रत्तरुणारुणारुणाः श्रियः क्रियाद्वः शुभयाभयाभयाः ॥ ६॥
शुभया आभया नित्यप्रभया दीप्त्या उपलक्षितः श्रीशंभुः अविद्यमानं भयं नाशभयं
यासां ताः श्रियो लक्ष्मीरूपा वो युष्माकं क्रियात् । स श्रीशिवः किंभूतः । जटा बिभ्रत् ।
कीदृशीः । तरुणारुणारुणाः तरुणो योऽरुणः सूर्य: । 'मिहिरारुणपूषण:' इत्यमरः । तद्व-
दरुणा रक्ताः । यतो 'धूर्जटिर्नीललोहितः' इत्यत्र 'नीलः कण्ठे लोहितः केशेषु' इति
स्वामी । जटा बिभ्रत् । कपिलकेशो भगवान् इत्यागमः । स क इत्याह - महामहाः
महन्महस्तेजो यस्य स महामहा अतितेजस्वी । क्लमहा क्लमं भक्तजनस्य दुःखं हन्तीति
तादृशः । तथा का न चमूर्जयन् । अर्थाद्दैत्यानां चमूः सेनाः । किंभूता । भीजनकानकाः
भियं परसैन्यस्य जनयन्तीति भीजनका आनकाः पटहा यासु ताः । एवंभूता अपि
चमूर्जयन्यस्य सूनुः स कुमार: सेनानीर्भवति ॥
 
मयि ध्रुवं दृग्भवता बताबता कृपामृतार्द्रा महिता हिताहिता ।
अतस्तवास्तप्रमयामया मया कृता नुतिः सातिशयाशयाशया ॥ ७ ॥
ध्रुवं निश्चये । हे शंभो इति शेषः । कृपामृतार्द्रा कृपैवामृतं तेनार्द्रा सरसा । तथा म
हिता पूजिता । सकलजगत्येवेत्यर्थः । तथा हिता हितकारिणी च (दृक् ) अवता रक्षता
भवता त्वया मयि ध्रुवं निश्चयेनाहिता निहिता ( बत) अतो हेतोरस्तप्रमयामया प्रमयो
मृत्युः । 'प्रमयोऽस्त्री दीर्घनिद्रा हिंसा संस्था निमीलनम्' इत्यमरः । आमयो रोगः ।
अस्तौ दूरीकृतौ प्रमयामयौ मृत्युरोगौ यया सा । अस्तः प्रमयो मृत्युरेव वा रोगो महा-
रोगो यया तादृशी तत्र नुतिः स्तुतिः (मया) कृता । कया । सातिशयाशयाशया । सह
अतिशयेन दयादाक्षिण्यादिगुणोत्कर्षेण वर्तते योऽसावाशयः तत्र या आशा परमेश्वरा-
नुग्रहेण शिवाभेदप्रथापरिज्ञानात्याशा तया ॥
 
अनभ्रवर्ष प्रतिमं विमत्सरा नरा जरारुम्मरणार्तिभीरवः ।
 
मेधा सुधासूतिवतंसशंसनं विहाय घावन्ति रसायनाय किम् ॥ ८ ॥
विमत्सरा विगतो मत्सरः परोत्कर्षासहनं येषां ते । शान्तमनस्का इत्यर्थः । तथा
जरा रुजो नाना व्याधयः मरणं कालधर्मश्च तैर्या आर्तिः पीडा तस्या भीरवस्त्रास्ता नरा
रसायनाय । जरामृत्युहरणार्थमौषधं रसायनम् । 'कल्प' इति भाषायां प्रसिद्धम् । तस्मै
कि मुधा व्यर्थे धावन्ति । किं कृत्वा । सुधासूतिवतंसशंसनं सुधासूतिश्चन्द्रोऽवतंसे यस्य
स चन्द्रावतंसः श्रीशिवः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । तस्य
श्रीशिवस्य शंसनं स्तुतिं विहाय । किंभूतम् । अनभ्रवर्षेण प्रतिमा यस्य तत् । अनभ्रव-
र्षवदकस्मात्तदनुग्रहेणाप्तम् । श्रीशिवस्तुतिरसायनामृतेन हि मृत्युत्रासापगमः । अतः
केवलं जरापमृत्युमात्रहरणसमर्थेन रसायनेन किं कार्यमिति भावः ॥
मणिः सुसूक्ष्मोऽपि यथोल्बणं विषं कृशोऽपि वह्निः सुमहद्यथा तृणम् ।
शिशुर्मृगेन्द्रोऽपि तथा गजव्रजं तनुः प्रदीपोऽपि यथा तमोभरम् ॥ ९ ॥
 
१. 'ध्रुवं या भवता' इति क-पाठ:. २. 'सुधा' इति स्व-पाठः,
 
Digitized by Google