This page has been fully proofread once and needs a second look.

७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
प्रकटीभवतु । किंभूतम् । अलौकिकेति । लोके भवो लौकिकः । न लौकिकोऽलौकिकः ।

तादृशश्चासावानन्दः परमानन्दस्तं निवध्नातीति । अपूर्वं परमानन्दमुत्पादयतीत्यर्थः

पुनः किंभूतम् । मनःप्रसादनम् । मनः प्रसादयति मायावरणाद्याच्छिद्य निर्मलीकरोति ।

पुनः किंभूतम् । स्वानुभव एवैकः साक्षी यस्य तत् । किमिव । कवेर्महाकवेर्गिरां वाचां

रहस्यमिव । गुरुसंप्रदायादवगतमित्यर्थः । तदपि किंभूतम् । अलौकिको य आहाह्लादो वि

गलितवेद्यान्तरः परमानन्दस्तन्निबन्धनम् । तथा मनःप्रसादनम् । स्वानुभवैकसाक्षि
कं
च । अन्यैर्दुर्बोधत्वादित्यर्थः ॥
 

 
स यस्य चापात्सपदि च्युतोऽच्युतः शिखाभिरुग्रो विशिखः शिखावतः ।

पुराण्यकार्षीदपुराणि भैरवो भयानि भिन्द्यादभवो भवः स वः ॥ ३ ॥

 
स भवः श्रीशंभुः अविद्यमानो भव उत्पत्तिर्यस्य सः । अनादित्वात् । वो युंष्माकं

भयानि ऐहिकामुष्मिकानि भिन्द्यात् । स क इत्याह - यस्य श्रीशंभोः स प्रसिद्धोऽच्युतो

विष्णुर्विशिखः शरस्त्रिपुरदाहार्थं शरीभूतो यस्यैव चापाद्धनुषः । मन्दराद्वेरेरिति शेषः । ध

नुर्भूतान्मन्दराद्रेश्च्युतः पतितः । तथाहि महिम्नः स्तवराजे – 'रथः क्षोणी यन्ता शत-

धृतिरगेन्द्रो धनुरथो स्थानेङ्गे चन्द्रार्कौ रथचरणपाणि: शर इति' इत्यादि । शिखावतो-

मेःग्नेः । मार्गणफलभूतादिति शेषः । शिखाभिः पुराणि त्रिपुरस्वरूपाणि अपुराणि अन-

गराण्यकार्षीद्व्यधित । अत्र च्युतः अच्युत इति, विशिखः शिखाभिरुप्ग्र इति, पुराणि अ-

पुराणि इति भवति विरोधाभासोऽलंकारः ॥
 
स यस्य ष्ट

 
स यस्य पृ
ष्ठे चरणार्पणं वृषा वृषाधिरोहे कलयत्यनुग्रहम् ।

त्रि[^१]लोकनाथः स गिरा सुधावृषा वृषाकपिस्तापमपाकरोतु वः ॥ ४ ॥
 

 
स त्रिलोकनाथो वृषाकपिः श्रीशिवः । 'वृषाकृपी वहिह्नि (विष्णु) शिवावभिग्निरिन्द्रो

दिवाकरः' इति मङ्गःखः । वो युष्माकं तापमाध्यात्मिकाद्यं त्रिविधमपाकरोतु । कया ।

गिरा वाचा । किंभूतया । सुधावृषा सुधां वर्षतीति सुधाहृवृट् तया । स क इत्याह-वृषा

इन्द्रः । 'वासवो वृत्रहा वृषा' इत्यमरः । पृष्ठे स्वस्य पृष्ठे यस्य चरणार्पणं चरणस्य श्री-

शिवपादस्यार्पणं न्यासमनुग्रहं महाप्रसादं कलयति जानाति । कदा । वृषाधिरोहे वृषस्य

वृषभस्य शंभुवाहनस्याधिरोह आरोहणे ॥
 

 
स यस्य पादद्वयमिद्धशासनः सदा समभ्यर्चति पाकशासनः ।
 

प्रभुः प्रसादामलया दृशा स नः क्रियाद्विपद्भङ्गमनङ्गशासनः ॥ ५ ॥

 
स प्रभुः अनङ्गं शासति हन्तीति । 'शासु हिंसायाम्' धातुः । अनङ्गशासनः श्रीशिवः

प्रसादेन कृपानुग्रहेणामलया निर्मलया दृशा दृष्टया नो विपदो जरामरणोत्थव्यापद-

स्तासां भङ्गो नाशस्तं क्रियात् करोतु । स क इत्याह-पाकशासनो दितिगर्भाणां शासनो

घातक इन्द्रः इद्धं दीप्तं शासनमाज्ञारूपं यस्य स तादृशो यस्य श्रीशिवस्य पादद्वयमति-
ङ्घ्रि
युगं सदा समभ्यर्चति सम्यक् सावधानचित्ततयाभ्यर्चति पूजयति ॥
 

 
[^
]. 'प्रसन्नभावः स गिरा सुधावृषा' इति ख-पाठः.
 
Digitized by Google