This page has not been fully proofread.

७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
प्रकटीभवतु । किंभूतम् । अलौकिकेति । लोके भवो लौकिकः । न लौकिकोऽलौकिकः ।
तादृशश्चासावानन्दः परमानन्दस्तं निवनातीति । अपूर्व परमानन्दमुत्पादयतीत्यर्थः
पुनः किंभूतम् । मनःप्रसादनम् । मनः प्रसादयति मायावरणाद्याच्छिद्य निर्मलीकरोति ।
पुनः किंभूतम् । स्वानुभव एवैकः साक्षी यस्य तत् । किमिव । कवेर्महाकवेगिरां वाचां
रहस्यमिव । गुरुसंप्रदायादवगतमित्यर्थः । तदपि किंभूतम् । अलौकिको य आहादो वि
गलितवेद्यान्तरः परमानन्दस्तन्निबन्धनम् । तथा मनःप्रसादनम् । स्वानुभवैकसाक्षिक
च । अन्यैर्दुर्बोधत्वादित्यर्थः ॥
 
स यस्य चापात्सपदि च्युतोऽच्युतः शिखाभिरुग्रो विशिखः शिखावतः ।
पुराण्यकार्षीदपुराणि भैरवो भयानि भिन्द्यादभवो भवः स वः ॥ ३ ॥
स भवः श्रीशंभुः अविद्यमानो भव उत्पत्तिर्यस्य सः । अनादित्वात् । वो युंष्माकं
भयानि ऐहिकामुष्मिकानि भिन्यात् । स क इत्याह - यस्य श्रीशंभोः स प्रसिद्धोऽच्युतो
विष्णुविशिखः शरस्त्रिपुरदाहार्थ शरीभूतो यस्यैव चापाद्धनुषः । मन्दराद्वेरिति शेषः । ध
नुर्भूतान्मन्दराद्रेच्युतः पतितः । तथाहि महिम्नः स्तवराजे – 'रथः क्षोणी यन्ता शत-
धृतिरगेन्द्रो धनुरथो स्थाने चन्द्राक रथचरणपाणि: शर इति' इत्यादि । शिखावतो-
ऽमेः । मार्गणफलभूतादिति शेषः । शिखाभिः पुराणि त्रिपुरस्वरूपाणि अपुराणि अन-
गराण्यकाषद्व्यधित । अत्र च्युतः अच्युत इति, विशिखः शिखाभिरुप्र इति, पुराणि अ-
पुराणि इति भवति विरोधाभासोऽलंकारः ॥
 
स यस्य ष्टष्ठे चरणार्पणं वृषा वृषाधिरोहे कलयत्यनुग्रहम् ।
त्रिलोकनाथः स गिरा सुधावृषा वृषाकपिस्तापमपाकरोतु वः ॥ ४ ॥
 
स त्रिलोकनाथो वृषाकपिः श्रीशिवः । 'वृषाकृपी वहि (विष्णु) शिवावभिरिन्द्रो
दिवाकरः' इति मङ्गः । वो युष्माकं तापमाध्यात्मिकाद्यं त्रिविधमपाकरोतु । कया ।
गिरा वाचा । किंभूतया । सुधावृषा सुधां वर्षतीति सुधाहृट् तया । स क इत्याह-वृषा
इन्द्रः । 'वासवो वृत्रहा वृषा' इत्यमरः । पृष्ठे स्वस्य पृष्ठे यस्य चरणार्पणं चरणस्य श्री-
शिवपादस्यार्पणं न्यासमनुग्रहं महाप्रसादं कलयति जानाति । कदा । वृषाधिरोहे वृषस्य
वृषभस्य शंभुवाहनस्याधिरोह आरोहणे ॥
 
स यस्य पादद्वयमिद्धशासनः सदा समभ्यर्चति पाकशासनः ।
 
प्रभुः प्रसादामलया दृशा स नः क्रियाद्विपद्भङ्गमनङ्गशासनः ॥ ५ ॥
स प्रभुः अनङ्गं शासति हन्तीति । 'शासु हिंसायाम्' धातुः । अनङ्गशासनः श्रीशिवः
प्रसादेन कृपानुग्रहेणामलया निर्मलया दृशा दृष्टया नो विपदो जरामरणोत्थव्यापद-
स्तासां भङ्गो नाशस्तं क्रियात् करोतु । स क इत्याह-पाकशासनो दितिगर्भाणां शासनो
घातक इन्द्रः इद्धं दीप्तं शासनमाज्ञारूपं यस्य स तादृशो यस्य श्रीशिवस्य पादद्वयमति-
युगं सदा समभ्यर्चति सम्यक् सावधानचित्ततयाभ्यर्चति पूजयति ॥
 
१. 'प्रसन्नभावः स गिरा सुधावृषा' इति ख-पाठः.
 
Digitized by Google