This page has been fully proofread once and needs a second look.

६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
६९
 
नादि उद्गतं यदलङ्ग्यमलङ्नीयं लिङ्गमनलस्कन्धरूपं तस्योल्लसंश्वाचासौ महामहिमा तेन

मोहितौ द्रुहिणवासुदेवौ ब्रह्मविष्णू येन सः । तथा हि - 'तवैश्वर्यं यत्नाद्यदुपरि विरिञ्चो

हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः । ततो भक्तिश्रद्धाभरगुरु गृणद्भधां
भ्यां
गिरिश यत्स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥' इति श्रीपुष्पदन्तगणाधीश-

विरचिते महिम्नः (पार)स्तवराजे । द्रुत्पह्यत्यसुरेभ्यो द्रुहिणो ब्रह्मा वसन्त्यस्मिन्सर्वे

देवा वासुः स चासौ देवः । वसुदेवनृपनन्दनो वासुदेवः ॥
 

अन्यदपि प्रभोरपदानमाह-

 
जयत्यतुलविक्रमोन्मिषदखर्वगर्वज्वर-

ज्वलच्चपलमन्मथोन्मथनभग्नभोगस्पृहः

दशास्यभुजमण्डलीतरलितैकपिङ्गाचल-

 

त्रसद्गिरिसुताहठ ग्रथितकण्ठपीठो हरः ॥ ६ ॥
 

 
अतुलविक्रमेणोन्मिषन्नुल्लसन्नस्वर्वोऽनल्पो यो गर्वज्वरो दर्पज्वरस्तेन ज्वलन्यश्चपलो

मन्मथः कामस्तस्योन्मथनं दाहेन भस्मीकरणं तेन भग्ना निवारिता भोगस्पृहा आत्मनो

येन सः । कामदहन इत्यर्थः । पुनरपादानमाह - दशास्येति । दशास्यस्य दशमुखस्य

रावणस्य या भुजानां विंशतिसंख्यानां मण्डली पकिङ्क्तिस्तया तरलित उत्थापितो य एक-

पिङ्गाचलो वैश्रवणाद्रिः कैलासस्तत्र त्रसन्ती सत्रासा चासौ गिरिसुता पार्वती तया ह

ठेन बलात्कारेण प्ग्रथितमालिङ्गितं कण्ठपीठं यस्य सः । तथाहि — 'अमुष्य त्वत्सेवास-

मधिगतसारं भुजवनं बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः । अलभ्या पातालेऽप्य-

लस चलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुख्ह्यति खलः ॥ इति श्रीगणा-

धीशपुष्पदन्तोक्तिः ॥
 

पुनरपदानमाह-

 
जयत्यकलितोल्लसन्मदभरोद्धरान्धासुर-

प्रतिष्करणसान्त्वनप्रथितनिग्रहानुग्रहः ।

जगत्रयभयंकरत्रिपुरघोरदावावली-

सलीलकवलीकृतिप्रलयवारिवाहो हरः ॥ ७ ॥
 

 
एवंभूतो हरः श्रीशंभुर्जयति । किंभूतः । अकलित :..
....... । कलतिधी
। कलतिर्धातुः कामधे-

नुरित्यभियुक्ताः । उल्लसन्यो मदभरस्तेनोद्धुर उद्भटश्वासावन्धासुरोऽन्धकासुरस्तस्य प्र

तिष्करणं हिंसनं सान्त्वनं च ताभ्यां प्रथितौ निग्रहानुग्रहौ यस्य सः । तथा किंभूतः ।

जगत्रयेति । जगत्रये त्रिजगति भयंकराणि त्रिपुराणि त्रिपुरासुरपुराणि त्रीणि

तान्येव घोरा चासौ दावावली दावाग्निपङ्किःक्तिः । 'दवदावौ वनारण्यवहीह्नी' इत्यमरः ।

तस्याः सलीलं कवलीकृतिर्निवापणं तत्र प्रलयवारिवाहः कल्पान्तमेघः । संवर्तक इ

त्यर्थः । आरोपः । त्रिपुरदाहक इत्यर्थः ॥
 
Digitized by Google