This page has not been fully proofread.

६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
६९
 
नादि उद्गतं यदलङ्घयमलङ्घनीयं लिङ्गमनलस्कन्धरूपं तस्योल्लसंश्वासौ महामहिमा तेन
मोहितौ द्रुहिणवासुदेवौ ब्रह्मविष्णू येन सः । तथा हि - 'तवैश्वर्य यत्नाद्यदुपरि विरिञ्चो
हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः । ततो भक्तिश्रद्धाभरगुरु गृणद्भधां
गिरिश यत्स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ इति श्रीपुष्पदन्तगणाधीश-
विरचिते महिम्नः (पार)स्तवराजे । द्रुत्पत्यसुरेभ्यो द्रुहिणो ब्रह्मा वसन्त्यस्मिन्सर्वे
देवा वासुः स चासौ देवः । वसुदेवनृपनन्दनो वासुदेवः ॥
 
अन्यदपि प्रभोरपदानमाह-
जयत्यतुलविक्रमोन्मिषदखर्वगर्वज्वर-
ज्वलच्चपलमन्मथोन्मथनभमभोगस्टहः
दशास्यभुजमण्डलीतरलितैकपिङ्गाचल-

 
त्रसद्गिरिसुताहठ ग्रथितकण्ठपीठो हरः ॥ ६ ॥
 
अतुलविक्रमेणोन्मिषन्नुल्लसन्नखर्वोऽनल्पो यो गर्वज्वरो दर्पज्वरस्तेन ज्वलन्यश्चपलो
मन्मथः कामस्तस्योन्मथनं दाहेन भस्मीकरणं तेन भग्ना निवारिता भोगस्पृहा आत्मनो
येन सः । कामदहन इत्यर्थः । पुनरपादानमाह - दशास्येति । दशास्यस्य दशमुखस्य
रावणस्य या भुजानां विंशतिसंख्यानां मण्डली पकिस्तया तरलित उत्थापितो य एक-
पिङ्गाचलो वैश्रवणाद्रिः कैलासस्तत्र त्रसन्ती सत्रासा चासौ गिरिसुता पार्वती तया ह
ठेन बलात्कारेण प्रथितमालिङ्गितं कण्ठपीठं यस्य सः । तथाहि — 'अमुष्य त्वत्सेवास-
मधिगतसारं भुजवनं बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः । अलभ्या पातालेऽप्य-
लस चलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद्रवमुपचितो मुख्यति खलः ॥ इति श्रीगणा-
धीशपुष्पदन्तोक्तिः ॥
 
पुनरपदानमाह-
जयत्यकलितोछसन्मदभरोडरान्धासुर-
प्रतिष्करणसान्त्वनप्रथितनिग्रहानुग्रहः ।
जगत्रयभयंकरत्रिपुरघोरदावावली-
सलीलकवलीकृतिप्रलयवारिवाहो हरः ॥ ७ ॥
 
एवंभूतो हरः श्रीशंभुर्जयति । किंभूतः । अकलित :..
....... । कलतिधीतुः कामधे-
नुरित्यभियुक्ताः । उल्लसन्यो मदभरस्तेनोद्धुर उद्भटश्वासावन्धासुरोऽन्धकासुरस्तस्य प्र
तिष्करणं हिंसनं सान्त्वनं च ताभ्यां प्रथितौ निग्रहानुग्रहौ यस्य सः । तथा किंभूतः ।
जगत्रयेति । जगत्रये त्रिजगति भयंकराणि त्रिपुराणि त्रिपुरासुरपुराणि त्रीणि
तान्येव घोरा चासौ दावावली दावाग्निपङ्किः । 'दवदावौ वनारण्यवही' इत्यमरः ।
तस्याः सलीलं कवलीकृतिनिवापणं तत्र प्रलयवारिवाहः कल्पान्तमेघः । संवर्तक इ
त्यर्थः । आरोपः । त्रिपुरदाहक इत्यर्थः ॥
 
Digitized by Google