This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
जयत्यचलकन्यकाललितदोर्लतालिङ्गित-

स्फुरद्गरलकौका[^१]लिकाकलितकान्तकण्ठस्थलः ।

तडिद्वलयलङ्घितोल्लसदमोघमेघभ्रम-

प्रमत्तगुहबर्हिणोपहृतनृत्तहृष्टो हरः ॥ ३ ॥
 

 
हरः श्रीशिवो जयति सर्वोत्कृष्टो भवति । किंभूतः । अचलेत्यादि । अचलकन्यकायाः

पार्वत्या या ललिता रम्या दोर्लता भुजलता तयालिङ्गितं स्फुरद्गरलकालिकाकान्तं क

लितकालकूटाख्यविषविशेषकालिमकान्तं कण्ठस्थलं यस्य स तादृशः । पुनः किंभूतः ।

तडिद्लयेन विद्युद्वलयेन लविङ्गितः काक्रान्तो य उल्लसन्नमोघः सनीरो मेघः । अतिश्यामल

इत्यर्थः । तस्य भ्रमेण प्रमत्तो यो गुहस्य कार्तिकेयस्य बर्हिणो मयूरस्तेन उपहृतं स्वीकृतं

यन्नृत्तं तेन तुष्टः । अत्र नीलकण्ठस्य सजलनीरद उपमानम् । अचलकन्यकादोर्लता-

यास्तडिद्वलयमुपमानम् । भ्रान्तिमदलंकारः ॥

 
जयत्यविरलोच्छलद्गरलवह्निहेतिच्छटा-

सटालफणभीषणक्षपणपाशमोक्षक्षमः ।

उदारकरुणारसप्रसरसारसिक्ताशयः

प्रपन्नविपदर्णवोत्तरणकर्णधारो हरः ॥ ४ ॥
 

 
हरः श्रीशंभुर्जयति सर्वोत्कृष्टो भवति । किंभूतः । अविरलमुच्छलदुद्गच्छद्यद्गरलं

विषं स एव वह्निस्तस्य या हेतिच्छटा शिखापकिङ्क्तिस्तया सटाला: सटाभिरिव युक्ता ये

फणास्तैभीषणो यः क्षपणपाशो यमपाशः । 'क्षपणौ यमनिर्धनौ' इति कोषः । तस्मा-

न्मोक्षः । शरणागतानामित्यर्थः । तस्मिन्क्षमः समर्थः । पुनः किंभूतः । उदारो यः क

रुणारसः कृपामृतरसस्तस्य यः प्रवाहस्तस्य सारेण सिक्त आशयो यस्य सः । पुनः शंभुः

किंभूतः । प्रपन्नाः शरणार्थमागतास्तेषां यो विपदर्णव आपत्समुद्रस्तस्योत्तरणे पारनि-

र्वा
हे कर्णधारो नाविकः । 'कर्णधारस्तु नाविकः' इत्यमरः ॥
 

इदानीं परमेश्वरस्यापदानं वर्णयन्नाह -

 
जयत्युदधिनिःसरद्गरनिगारलब्धाभय-

प्रमोदभरनिर्भरत्रिदशदैत्यवृन्दस्तुतः ।

रसातलतलोद्गतज्वलदलङ्घ चघ्यलिङ्गोल्स-

न्महामहिममोहितद्रुहिणवासुदेवो हरः ॥ ५ ॥
 

 
जयत्युदधीति । हरः श्रीशंभुर्जयति सर्वोत्कृष्टो भवति । किंभूतः । उदधेः क्षीरोद-

धेर्निःसरन्यो गरः कालकूटाख्यो विषभेदस्तस्य यो निगारो निगलनं तेन यल्लब्धमभयं

त्रिजगद्दाहकतादृशविषभयाभावस्तेन यः प्रमोदभरो हर्षभरस्तेन निर्भरं पूर्णं यत्रिदशदै-

त्यनृन्दं तेन स्तुतः । अन्यदप्यपदानमाह रसातलेत्यादि । रसातलतलात्पातालतलाद-

 
[^
]. 'कालिमा' इति क-पाठ:.
 
Digitized by Google