This page has not been fully proofread.

काव्यमाला ।
 
जयत्यचलकन्यकाललितदोलतालिङ्गित-
स्फुरद्गरलकौलिकाकलितकान्तकण्ठस्थलः ।
तडिद्वलयलङ्घितोलसदमोघमेघभ्रम-
प्रमत्तगुहबर्हिणोपहृतनृत्तहृष्टो हरः ॥ ३ ॥
 
हरः श्रीशिवो जयति सर्वोत्कृष्टो भवति । किंभूतः । अचलेत्यादि । अचलकन्यकायाः
पार्वत्या या ललिता रम्या दोर्लता भुजलता तयालिङ्गितं स्फुरद्गरलकालिकाकान्तं क
लितकालकूटाख्यविषविशेषकालिमकान्तं कण्ठस्थलं यस्य स तादृशः । पुनः किंभूतः ।
तडिद्लयेन विद्युद्वलयेन लवितः कान्तो य उल्लसन्नमोघः सनीरो मेघः । अतिश्यामल
इत्यर्थः । तस्य भ्रमेण प्रमत्तो यो गुहस्य कार्तिकेयस्य बर्हिणो मयूरस्तेन उपहृतं स्वीकृतं
यन्नृत्तं तेन तुष्टः । अत्र नीलकण्ठस्य सजलनीरद उपमानम् । अचलकन्यकादोर्लता-
यास्तडिद्वलयमुपमानम् । भ्रान्तिमदलंकारः ॥
जयत्यविरलोच्छलद्गरलवह्निहेतिच्छटा-
सटालफणभीषणक्षपणपाशमोक्षक्षमः ।
उदारकरुणारसप्रसरसारसिक्ताशयः
प्रपन्नविपदर्णवोत्तरणकर्णधारो हरः ॥ ४ ॥
 
हरः श्रीशंभुर्जयति सर्वोत्कृष्टो भवति । किंभूतः । अविरलमुच्छलदुद्गच्छयद्गरलं
विषं स एव वह्निस्तस्य या हेतिच्छटा शिखापकिस्तया सटाला: सटाभिरिव युक्ता ये
फणास्तैभषणो यः क्षपणपाशो यमपाशः । 'क्षपणौ यमनिर्धनौ' इति कोषः । तस्मा-
न्मोक्षः । शरणागतानामित्यर्थः । तस्मिन्क्षमः समर्थः । पुनः किंभूतः । उदारो यः क
रुणारसः कृपामृतरसस्तस्य यः प्रवाहस्तस्य सारेण सिक्त आशयो यस्य सः । पुनः शंभुः
किंभूतः । प्रपन्नाः शरणार्थमागतास्तेषां यो विपदर्णव आपत्समुद्रस्तस्योत्तरणे पारनि-
वहे कर्णधारो नाविकः । 'कर्णधारस्तु नाविकः' इत्यमरः ॥
 
इदानीं परमेश्वरस्यापदानं वर्णयन्नाह -
जयत्युदधिनिःसरद्गरनिगारलब्धाभय-
प्रमोदभरनिर्भरत्रिदशदैत्यवृन्दस्तुतः ।
रसातलतलोद्गतज्वलदलङ्घ चलिङ्गोल्डस-
न्महामहिममोहितद्रुहिणवासुदेवो हरः ॥ ५ ॥
 
जयत्युदधीति । हरः श्रीशंभुर्जयति सर्वोत्कृष्टो भवति । किंभूतः । उदधेः क्षीरोद-
धेनिःसरन्यो गरः कालकूटाख्यो विषभेदस्तस्य यो निगारो निगलनं तेन यल्लब्धमभयं
त्रिजगद्दाहकतादृशविषभयाभावस्तेन यः प्रमोदभरो हर्षभरस्तेन निर्भरं पूर्ण यत्रिदशदै-
त्यनृन्दं तेन स्तुतः । अन्यदप्यपदानमाह रसातलेत्यादि । रसातलतलात्पातालतलाद-
१. 'कालिमा' इति क-पाठ:.
 
Digitized by Google