This page has been fully proofread once and needs a second look.

६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
स्वयमेव स्पृहणीयतां भुवि भूमीमौ यास्यन्ति । एतद्वृत्ताथमिर्थाभिप्रायेण ममापीदं वृत्तम्-

'शिवमुद्दिश्य हि मन्ये धन्यो हालाककर्तापि । न पुनस्तदनुद्देशी संस्कृतबहुशास्त्र-

कर्तापि' ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक

महाकविश्रीजगद्धरभट्टविरचित भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

कविकाव्यप्रशंसास्तोत्रं पञ्चमम् ।

 
षष्ठं स्तोत्रम् ।
 

 
अथातो हराष्टकं षष्ठं स्तोत्रमारभमाण आह -

जयत्यखिलखेचरप्रवरमौलिरत्नप्रभा-

प्ररोहपरिपीवरीकृतनखांशुपादाम्बुजः

विशालनयनत्रयीरचितधामधामत्रयी-

तिरस्कृतजगत्रयीपरिणतान्धकारो
 

 
हरः ॥ १॥
 

 
जयतीति । एवंभूतो हरः श्रीशिवो जयति सर्वोत्कृष्टो भवति । किंभूतः । खे स्वर्गे

चरन्तीति खेचरा देवा अलक्ष्यमाभासः । 'खानि स्वर्गेन्द्रियाकाशाः' इति मङ्गः । तेषां ये

प्रवरा ब्रह्मविष्णुशक्रादयस्तेषां मौलिषु मुकुटेषु यानि रत्नानि पद्मरागमणयस्तेषां प्रभाप्र-

रोहा दीप्त्युत्थरम्यप्ग्राणि तैः परिपोपीवरीकृता मांसलीकृता नखांशवो नखकिरणाः स्व-

भावतोऽतिलोहिता ययोस्तादृशे पादाम्बुजे पादकमले यस्य सः । पुनः किंभूतः । वि

शाला अतिविस्तीर्णा । सूर्यचन्द्रवहीह्नीनामपि तत्रासंकुचितस्थत्वात् । तादृशी चासौन-
न-
यनत्रयी नेत्रत्रयी तस्यां रचितं धाम स्थानं यया सा तादृशी चासौ धामत्रयी धाम्नां

सूर्यचन्द्रवहीनह्नीना त्रयी तथा तिरस्कृतं जगत्रय्यां परिणतं प्रौढमन्धकारं येन सः ॥

 
जयत्यमरदीर्घिकासलिलसेकसंवर्धेित-

प्रचण्डनयनानलग्लपिततीव्रतापव्यथः ।

अचिन्त्यचरितोज्ज्वलज्वलदनन्यसाधारण-

प्रभावमहिमाहितत्रिभुवनोपकारो हरः ॥ २ ॥
 

 
हरो जयति सर्वोत्कृष्टो भवति । किंभूतः । अचिन्त्येति । अचिन्त्यानि चिन्तितुम-

शक्यानि यानि चरितानि तैरुज्ज्वलो ज्वलन्देदीप्यमानो योऽनन्यसाधारणो न परा-

धीनो यस्तस्य प्रभावस्य महिमा महत्त्वं तेनाहितः कृतस्त्रिभुवन उपकारो येन सः ।

अत्राचिन्त्यचरितत्वे हेतुमाह - अमरदीर्घिकेत्यादि । अमराणां देवानां दीर्घिका पुष्क-

रिणी स्वर्गङ्गा तस्या यत्स्त्रलिलं तस्य सेकः सेचनं तेन संवर्धितः प्रागल्भ्यं नीतो यो न-

यनानलो नेत्राग्निस्तेन ग्लपिता शासिता तीव्रा कठिना तापव्यथा भवमरुभ्रमणजता-

पस्य आध्यात्मिकाधिदैविकाधिभौतिकरूपस्य त्रिविधस्य तापस्य व्यथा येन सः । अत्र

सलिलसेकादग्नेः प्रशम एव भवति तत्रापि तेन नयनान्मेग्नेर्यत्प्राबल्येन ज्वलनमित्येकमद्भु-

तम् । तत्रापि तेनैव नयनाग्निना तापव्यथाशम इत्यद्भुतं द्वितीयम् । अग्निना तु तापः

प्रथत एवेति भावः ॥
 
Digitized by Google