2023-02-23 21:27:09 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
लिखति धरण्यां रेखाः करोति । तथा ईशितुर्वाक्पतेः सूक्तिभिः शोभनोक्तिभिः प्रेय-
सोऽतिप्रियस्यापि वस्तुनः प्रीतिं न प्रस्तौति नारभते । तथा करतले कपोलं धत्ते । त
स्मादेतदवधार्यते श्रीशंभुचरणस्तुतिसूक्तिभिर्निजवाणीसाफल्यं कविभिर्विधेयमिति ॥
अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते
धिक्काराय पराभवाय महते तापाय पापाय वा ।
स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये
चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥ ३५ ॥
अस्थान इति । इतधियां धनलोभेन प्रमादेन वा प्रस्तधिषणानां कुकवीनां वाग्देवता
वाणी अस्थाने कुत्सितस्थाने दुर्विदग्धे शठे विशेषतः श्रीशिवशासनपराड्युखे लयं प्र-
लयं गमिता । हतधीभिरेवेत्यर्थः । ईदृशी वाणी धिक्काराय धिगितिकरणं निन्दारूपं तस्मै
तथा महते पराभवाय । प्रत्युत तादृशो दुर्विदग्धाभिसंज्ञितो गुरोरपि पराभवं विदध्यात् ।
तथा तापाय पश्चात्तापाय । पापाय दुष्कृतायापि । तादृशस्य कुमार्गेऽपि लीनचित्तत्वा-
त्प्रत्युतोपदेशकस्य दुष्कृतस्पर्शापत्तेः । स्थाने तु । तु इति पक्षान्तरे । सद्भिः पण्डितैः
स्थाने गुरोराज्ञाकारिणि कृतज्ञे सरले सहृदयें सर्वथा शिवशासनैकनिरते व्ययिता सतो
स॒तां विदुषां गुरूणां प्रख्यातये तन्नाम प्रख्यापनाय, भूतये संपत्त्यै, चेतोनिर्वृतये मनः-
सौख्याय, परोपकृतये शिष्यप्रशिष्यमुखेन परोपकाराय तथा प्रान्ते पश्चात्समये शिवस्या-
त्यन्तिकदुःखनिवृत्तिरूपस्य निःश्रेयसस्य प्राप्तये भवति ॥
एतत्स्तोत्रसमाप्तौ ग्रन्थकृत्प्रथमं प्राचीनमहाकवीनां निपुणकविकर्मावधारणेन नि-
जौचित्यम् 'एता: पूर्व-' इत्यादि श्लोकार्थेन वर्णयित्वापि तान्सर्वथा शिवभक्तिपराढ्यु-
खांस्तृणवदवध्यानेकजन्मपरम्परोपार्जितसुकृतावाप्तश्रीशिवभक्तिरसायनपानव्यसनिनां
कृतिनां निजकाव्यस्य स्वयमतिस्पृहणीयतया निजवाण्याः साफल्यं प्रतिज्ञानीते-
एताः पूर्वकविप्रणीतविविधग्रन्थामृतास्वादन-
क्रीडादुर्ललितं हरन्ति हृदयं वाचः कथं धीमताम् ।
केषांचित्पुनरीश्वरस्तुतिपदव्याहारहेवाकिनां
यास्यन्ति स्टहणीयतां भुवि भवक्लेशस्टशां मादृशाम् ॥ ३६ ॥
-
एता इति । एता मदीया वाचो धीमतां सुमनसां हृदयं मनः कथं हरन्ति । तेषां
हृयाः कथं भवन्तीत्यर्थः । अत्र हेतुमाह - हृदयं किंभूतम् । पूर्वकवीत्यादि । पूर्वकविभिः
कालिदासप्रभृतिभिः प्रणोता ये विविधा ग्रन्थाः संदर्भास्त एवामृतं तस्यास्वादस्तत्र
या क्रीडा तस्यां दुर्ललितं तदास्वादे नित्याभ्यस्तम् । 'नित्याभ्यस्तं दुर्ललितम्' इति
कोषः । तर्हि एतज्ज्ञात्वापि तव कोऽत्र संदर्भः कर्तव्य इति व्यसनातिशय इत्याह-
केषांचिदिति । केषांचित्कतिपयानां विरलानां मादृशां भवत्लेशस्पृशां संसृतिजक्ले-
शस्पृशां शिवस्तुतिपदव्याहारहेवाकिनां श्रीशिवस्तुत्यर्थपदानि यानि सुप्तिङन्तानि तेषां
व्याहारः सम्यकथनं तत्र हेवाकोऽभिलाषो विद्यते येषां तादृशां पुनः स्वयमेवेत्यर्थात् ।
Digitized by Google