This page has not been fully proofread.

६४
 
काव्यमाला ।
 
स्वभावतः शिशिरेऽपि स्वर्गापगानिर्झरे स्वर्गङ्गाप्रवाहे एष ह्रादो नास्ति । तथा गाढ:
प्रेमभरः स्नेहातिशयो यस्य तस्मिन् स्मरज्वरहरे कामरोगापहे उद्दामरामाघरे लौहित्या-
दिगुणोद्भटे कान्ताधरोष्ठेऽपि स परमानन्दो नास्ति ॥
 
ओजस्वी मधुरः प्रसादविशदः संस्कारशुद्धोऽभिधा-
भक्तिव्यक्तिविशिष्टरीतिरुचितैरर्थैर्धृतालंकृतिः ।
वृत्तस्थः परिपाकवानविरसः सहूत्तिरप्राकृतः
 
शस्यः कस्य न सत्कविर्भुवि यथा तस्यैव सूक्तिक्रमः ॥३१॥
ओजस्वीति । सत्कविर्महाकविः विशेषतः शिवभक्तिरसामृतसिक्तचेताः कस्य न
शस्यः स्तुत्यः किंभूत ओजस्वी महातेजस्वी तथा मधुरो रम्यः प्रसादेन श्रीशिवानुप्र-
हेण विशदो निर्मलः । तथा संस्कारेणोपनयनादिसंस्कारेण शुद्धः तथा अभिधा अभि-
धानं नामधेयं भक्तिः शंभुभक्तिः व्यक्तिः प्रसिद्धिः ताभिर्विशिष्टा रीतिः प्रथा यस्य सः ।
तथा उचितैर्निजविद्योपाजितैरर्थैधनैर्घृता अलंकृतिर्भूषा येन । तथा वृत्तस्थः वृत्ते आचारे
स्थितः । परिपाकवान् गाम्भीर्यगुणवान् न विरसः अविरसः वैरस्यरहितः सद्वृत्तिः सतो
वृत्तिर्जीविका यस्य तथा अप्राकृतः सत्कविः । को यथा क इव । यथाशब्द इवार्थे ।
तस्यैव सत्कवेः सूक्तिक्रमः काव्यपरिपाटीरूपः । यथा सोऽपि ओजस्वी ओजोगुण-
वान् । तथा मधुरो माधुर्याख्यगुणवान् । प्रसादविशदः प्रसादाख्यशब्दगुणेन विशदो
निर्मलः । संस्कारेण लोकवृत्तशास्त्रकाव्याद्यवेक्षणोत्पन्नव्युत्पत्त्या शुद्धः । तथा अभिधा
मुख्यः शब्दव्यापारः भक्तिर्भाक्तो गौणोपचारः व्यक्तिव्यङ्गार्थप्रतीतिः ताभिर्विशिष्टा
रीतिवैदर्भी यस्य उचितैरर्यैर्वाच्यलक्ष्यव्यङ्ग्यैस्त्रिभिर्घृता अलंकाराः पुनरुक्तवदाभासादयः
शब्दालंकाराः उपमादयश्चार्थालंकारा येन सः । वृत्तेषु वसन्ततिलकशार्दूलविक्रीडिता-
दिवृत्तेषु तिष्ठति तादृशः । परिपाकवानतिप्रौढः । तथा अविरसो वर्णनीयोचितरसयुक्तः
सरसः । तथा सत्यः शोभना वृत्तयः कैशिक्याद्या यस्य सः । तथा अप्राकृतः न प्राकृतं
प्राकृतभाषारूपं यत्र सः ॥
 
प्राप्ता कल्पलतेव चेद्भगवती वागीश्वरी कैरपि
 
प्राक्पुण्यैः स्वपरोपकारकरणप्रौढा पुनर्दुर्लभा ।
अझैस्तज्ज्ञजनोपदेशविहितावज्ञैर्दुराशाहतै-
रस्ता दुर्मदकर्दमे फलति किं पापं सशापं विना ॥ ३२ ॥
प्राप्तेति । कैरपि कृतिभिर्जनैः प्राक्पुण्यैः प्राचीनानेकजन्मोपार्जितपुण्यवशाद्वागीश्वरी
भगवती कल्पलतेव स्वर्दुमलतेव सकलेष्टदात्री चेद्यदि प्राप्ता तर्हि सा वाग्देवी स्वस्य
परस्य चोपकारकरणे विगलतवेद्यान्तर परमानन्दरूपोपकारकरणे प्रौढा पुनर्दुर्लभास्ति ।
१. 'तेजस्वी' इति क-पाठः २. 'वृतालंकृतिः' इति क पाठः.
 
Digitized by Google