2023-10-08 08:37:06 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
६३
शिवभट्टारकस्य कथासंदर्
अमृतद्रववदाचरन्ति । क्विबन्तो धातु
पदिकानां क्किप् वा वक्तव्यः' । तथा तेषां कर्णे वलं
स्तबकालंकारस्तद्वदाचरन्ति । तथा कण्ठपुलिने कण्ठतटे मुक्ताकलापवन्मुक्ताहारव-
दाचरन्ति । किंभूता गिरः । शैलेन मन्दरेणान्दोलितो मथितो यो दुग्धसिन्धुः क्षीरार्ण-
वस्तस्य लहरीभङ्गवदभिराम उद्गमो यासां ताः । एतद्वृत्तार्थच्छायानुसारेण ममापीदं घृ-
त्तम् - 'या हीरन्तकि कैरवन्तकि सतां कण्ठेषु हारन्तकि प्रौढेन्दोः किरणन्तकि प्रति-
दिशं कैलासशैलन्तकि । गीर्वाणाधिपकु
जयन्तकि त्रिजगति ख्याताः परं कीर्तयः' ॥
धन्यानां भणितिच्छलेन वदनेषूद्यन्ति हृत्कर्णिका-
धाम्रः सूक्तिसुधावबोधविधुतापीडस्य चण्डीपतेः ।
किं जूटाहिकिरीटरत्नरुचयः किं स्त्रग्रजःसूचयः
किं मौलीन्दुमरीचयः किममरस्त्रो[^१]तस्वतीवीचयः ॥ २९ ॥
धन्यानामिति । धन्यानां शिवभक्तिरसामृतसिक्तचेतसां कविवराणां वदनेषु भणि
तिच्छलेन प्रौढोक्तिच्छलेन तेषामेव हृत्कर्णिकाधाम्नः हृदेव कर्णिका तस्मिन्धाम स्थानं
यस्य तादृशस्य चण्डीपतेः श्रीशिवस्य तेषामेव सूक्तिसुधावबोधेन प्रौढोक्त्यमृताकर्णनेन
विघुतापीडस्य विधुतमौलेर्जूटाहिकिरीटरत्नरुचयः कपर्दफणिमुकुटरत्नद्युतयः किमुद्यन्त्यु-
द्गच्छन्ति । किं वा श्रीशिवस्यैव स्र
उद्गच्छन्ति । किं वा शंभोर्
नदीवीचयः ॥
.
सान्द्रानन्दकरे भृतामृतकरे [^२]नास्त्येष राकाकरे
न प्रौढसरे निसर्गशिशिरे स्वर्गापगानिर्झरे ।
गाढप्रे
यः शंभोर्मधुरे स्तुतिव्यतिकरे ह्रादः सुधासोदरे ॥ ३० ॥
सान्द्रेति । सुधायाः सोदरे सहोदरे मधुरे शंभोः स्तुतिव्यतिकरे स्तुतीनां व्यतिकर-
स्तस्मिन् यो ह्लादः परमानन्दः एष धृतामृतकरे धृता अमृतमयाः करा रश्मयो येन
तादृशे, तथा सान्द्रानन्दकरे सान्द्रो य आनन्दस्तं करोतीति तादृशे राकाकरे पूर्णचन्द्रेऽपि
परमानन्दो नास्ति । तथा प्रौढप्रसरे प्रौढ: प्रसरो निर्गमो यस्य तादृशे निसर्गशिशिरे
[^१]. 'स्रोतस्विनी' इति ख- पाठ:
[^२]. 'नास्त्येव' इति क-पाठः
[^३]. 'प्रेमतरे' इति
Digitized by Google