This page has not been fully proofread.

५ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
६३
 
धन्येति । श्यामाकामुकखण्ड: खण्डेन्दुः स एव मण्डनं भूषणं यस्य स तस्य श्री-
शिवभट्टारकस्य कथासंदर्भों गर्भे यासां ता गिरः कविवरवाचो धन्यानां भाग्यवतां हृदये
अमृतद्रववदाचरन्ति । क्विबन्तो धातुलं न जहाति लिङ्गत्वं च प्रतिपद्यते । 'सर्वप्राति-
पदिकानां क्किप् वा वक्तव्यः' । तथा तेषां कर्णे वलंञ्चासौ मल्लिकालंकारस्तबको जाती-
स्तबकालंकारस्तद्वदाचरन्ति । तथा कण्ठपुलिने कण्ठतटे मुक्ताकलापवन्मुक्ताहारव-
दाचरन्ति । किंभूता गिरः । शैलेन मन्दरेणान्दोलितो मथितो यो दुग्धसिन्धुः क्षीरार्ण-
वस्तस्य लहरीभङ्गवदभिराम उद्गमो यासां ताः । एतद्वृत्तार्थच्छायानुसारेण ममापीदं घृ-
त्तम् - 'या हीरन्तकि कैरवन्तकि सतां कण्ठेषु हारन्तकि प्रौढेन्दोः किरणन्तकि प्रति-
दिशं कैलासशैलन्तकि । गीर्वाणाधिपकुअरन्तकि भुवि त्वत्किंकरस्येह ताः कस्यापीश
जयन्तकि त्रिजगति ख्याताः परं कीर्तयः' ॥
 
धन्यानां भणितिच्छलेन वदनेषूद्यन्ति हृत्कर्णिका-
धाम्रः सूक्तिसुधावबोधविधुतापीडस्य चण्डीपतेः ।
किं जूटाहिकिरीटरत्नरुचयः किं स्त्रग्रजःसूचयः
 
किं मौलीन्दुमरीचयः किममरस्त्रोतस्वतीवीचयः ॥ २९ ॥
धन्यानामिति । धन्यानां शिवभक्तिरसामृतसिक्तचेतसां कविवराणां वदनेषु भणि
तिच्छलेन प्रौढोक्तिच्छलेन तेषामेव हृत्कर्णिकाधाम्नः हृदेव कर्णिका तस्मिन्धाम स्थानं
यस्य तादृशस्य चण्डीपतेः श्रीशिवस्य तेषामेव सूक्तिसुधावबोधेन प्रौढोक्त्यमृताकर्णनेन
विघुतापीडस्य विधुतमौलेर्जूटाहिकिरीटरत्नरुचयः कपर्दफणिमुकुटरत्नद्युतयः किमुद्यन्त्यु-
गच्छन्ति । किं वा श्रीशिवस्यैव स्रप्रजःसूचयः स्रजां मालानां रजांसि तान्येव सूचय
उद्गच्छन्ति । किं वा शंभोर्मोलीन्दुमरीचयः किं वा अमरस्रोतस्वतीवीचयो देव-
नदीवीचयः ॥
 
.
 
सान्द्रानन्दकरे भृतामृतकरे नास्त्येष राकाकरे
 
न प्रौढसरे निसर्गशिशिरे स्वर्गापगानिर्झरे ।
गाढप्रेमैभरे स्मरज्वरहरे नोद्दामरामाघरे
 
यः शंभोर्मधुरे स्तुतिव्यतिकरे ह्रादः सुधासोदरे ॥ ३० ॥
सान्द्रेति । सुधायाः सोदरे सहोदरे मधुरे शंभोः स्तुतिव्यतिकरे स्तुतीनां व्यतिकर-
स्तस्मिन् यो ह्लादः परमानन्दः एष धृतामृतकरे धृता अमृतमयाः करा रश्मयो येन
तादृशे, तथा सान्द्रानन्दकरे सान्द्रो य आनन्दस्तं करोतीति तादृशे राकाकरे पूर्णचन्द्रेऽपि
परमानन्दो नास्ति । तथा प्रौढप्रसरे प्रौढ: प्रसरो निर्गमो यस्य तादृशे निसर्गशिशिरे
 
१. 'स्रोतस्विनी' इति ख- पाठ:. २. 'नास्त्येव' इति क-पाठः ३. 'प्रेमतरे' इति
 
ख-पाठः.
 
Digitized by Google