This page has been fully proofread once and needs a second look.

६२
 
काव्यमाला ।
 
त्वात्तत्पदस्य इदमेवोच्चैःपदमिति च मतयः समुद्यन्ति उत्पद्यन्ते । शिवैकताध्यायिनां

भजमानानामित्यर्थः ॥
 

 
मधुस्यन्दी मन्दीकृतविपदुपाधिर्भवमरु-

भ्रमक्केशावेशप्रशमकमनीयो विजयते ।

[^१]
अखण्डश्रीखण्डद्रवनवसुधासारसरसः
 

प्रसादो वाग्देव्याः प्रवरकविकाव्यामृतवपुः ॥ २६ ॥

 
मध्वितिः । एवंभूतो वाग्देव्याः सरस्वत्याः प्रसादो विजयते सर्वोत्कृष्टो भवति । 'विप

राभ्यां जेः' इति नित्यमात्मनेपदम् । किंभूतः । मधु रसायनरसं स्यन्दते तादृशः, तथा मन्दो

कृता विपदेवोपाधिर्विपदा वा उप समीपे आधिर्मनःपोपीडा येन सः । तथा भवः पुनरात्रवृ-

त्तिरूपः संसार एव मरुर्जलरहितो गहनो देशस्तस्य भ्रमेण यः क्लेशावेशस्तस्य प्रशमे क

मनीय: काङ्क्षणीयः । तथा अखण्ड: पूर्णो यः श्रीखण्डस्य मलयजस्य द्रवो रसः स च

नवसुधासारश्च तद्वत्सरसः । पुनः किंभूतः । प्रवरकविकाव्यामृतवपुः महाकविकाव्यामृ
-
तमेव वपुर्यस्य सः । श्रीसरस्वत्या मूर्ते शरीरं महाकविकाव्यमेवावगन्तव्यमित्यर्थः ॥

 
घनानन्दस्यन्दोद्गतविपुलबाष्पार्द्रनयनं
से

[^२]स
लीलभ्रुवडीवलनविवलारूवल्लीवलनविवलद्भालपुलिनम् ।

उदञ्चद्रोमाञ्चस्तबकितकपोलं विदधते
 

सुधार्द्रा धन्यानां वदनमनवद्याः कविगिरः ॥ २७ ॥

 
घनेति । अनवद्या निर्दोषाः पददोषार्थदोषरहिताः सुधाद्री अमृतसिक्ताः कविगिरो

महाकविवाचो धन्यानां भाग्यवतां शिवभक्तिरसामृतसिक्तचेतसां वदनं मुखमेवंविधं

विदधते कुर्वन्ति । कीदृगित्याह – घनो विगलितवेद्यान्तरो य आनन्दः परमानन्दस्तेन

यः स्पन्दः कम्पः । 'स्यन्द' इति पाठे परमानन्दप्रवाहस्तेनोद्गत उत्पन्नो यो बाष्पस्तेनार्द्रे

नयने यस्य तत् । परमानन्दाश्रुपूरार्द्रलोचनमित्यर्थः । पुनः किंभूतम् । सलीलं सखेलं
यहू

यद्भ्रू
वल्लीवलनं भ्रूलताचलनं तेन विवलद्विशेषेण वलद्भालमेव ललाटमेव पुलिनं यत्र

तत् । सलीलभ्रूलतापरिवलनोर्ध्वपरिवृत्तललाटस्थलमित्यर्थः । पुनः किंभूतम् । उदश्ञ्चदु-

ल्लसन्यो रोमाञ्चस्तेन स्तबकितौ सस्तबकौ कृतौ कपोलौ गण्डौ यस्य तत् ॥
 

 
धन्यानाममृतद्रवन्ति हृदये कर्णे वलन्मल्लिका-

लंकारस्तकन्ति कण्ठ पुलिने मुक्ताकलापन्त्यपि ।

शैलान्दोलितदुग्धसिन्धुलहरीभङ्गाभिरामोद्गमाः

श्यामाकामुकखण्डमण्डनकथासंदर्भगर्भा गिरः ॥ २८ ॥
 

 
[^
]. 'अखण्डं' इति ख- पाठ:
[^
]. 'सलीलं' इति ख- पाठः.
 
Digitized by Google