This page has not been fully proofread.

६२
 
काव्यमाला ।
 
त्वात्तत्पदस्य इदमेवोच्चैःपदमिति च मतयः समुद्यन्ति उत्पद्यन्ते । शिवैकताध्यायिनां
भजमानानामित्यर्थः ॥
 
मधुस्यन्दी मन्दीकृतविपदुपाधिर्भवमरु-
भ्रमक्केशावेशप्रशमकमनीयो विजयते ।
अखण्डश्रीखण्डद्रवनवसुधासारसरसः
 
प्रसादो वाग्देव्याः प्रवरकविकाव्यामृतवपुः ॥ २६ ॥
मध्वितिः । एवंभूतो वाग्देव्याः सरस्वत्याः प्रसादो विजयते सर्वोत्कृष्टो भवति । 'विप
राभ्यां जेः' इति नित्यमात्मनेपदम् । किंभूतः । मधु रसायनरसं स्यन्दते तादृशः, तथा मन्दो
कृता विपदेवोपाधिर्विपदा वा उप समीपे आधिर्मनःपोडा येन सः । तथा भवः पुनरात्र-
त्तिरूपः संसार एव मरुर्जलरहितो गहनो देशस्तस्य भ्रमेण यः क्लेशावेशस्तस्य प्रशमे क
मनीय: काङ्क्षणीयः । तथा अखण्ड: पूर्णो यः श्रीखण्डस्य मलयजस्य द्रवो रसः स च
नवसुधासारश्च तद्वत्सरसः । पुनः किंभूतः । प्रवरकविकाव्यामृतवपुः महाकविकाव्यामृ
तमेव वपुर्यस्य सः । श्रीसरस्वत्या मूर्ते शरीरं महाकविकाव्यमेवावगन्तव्यमित्यर्थः ॥
घनानन्दस्यन्दोद्गतविपुलबाष्पार्द्रनयनं
सेलीलभ्रुवडीवलनविवलालपुलिनम् ।
उदञ्चद्रोमाञ्चस्तबकितकपोलं विदधते
 
सुधार्द्रा धन्यानां वदनमनवद्याः कविगिरः ॥ २७ ॥
घनेति । अनवद्या निर्दोषाः पददोषार्थदोषरहिताः सुधाद्री अमृतसिक्ताः कविगिरो
महाकविवाचो धन्यानां भाग्यवतां शिवभक्तिरसामृतसिक्तचेतसां वदनं मुखमेवंविधं
विदधते कुर्वन्ति । कीदृगित्याह – घनो विगलितवेद्यान्तरो य आनन्दः परमानन्दस्तेन
यः स्पन्दः कम्पः । 'स्यन्द' इति पाठे परमानन्दप्रवाहस्तेनोद्गत उत्पन्नो यो बाष्पस्तेनार्द्रे
नयने यस्य तत् । परमानन्दाश्रुपूरार्द्रलोचनमित्यर्थः । पुनः किंभूतम् । सलीलं सखेलं
यहूवल्लीवलनं भ्रूलताचलनं तेन विवलद्विशेषेण वलद्भालमेव ललाटमेव पुलिनं यत्र
तत् । सलीलभ्रूलतापरिवलनोर्ध्वपरिवृत्तललाटस्थलमित्यर्थः । पुनः किंभूतम् । उदश्चदु-
ल्लसन्यो रोमाञ्चस्तेन स्तबकितौ सस्तबकौ कृतौ कपोलौ गण्डौ यस्य तत् ॥
 
धन्यानाममृतद्रवन्ति हृदये कर्णे वलन्मल्लिका-
लंकारस्तवकन्ति कण्ठ पुलिने मुक्ताकलापन्त्यपि ।
शैलान्दोलितदुग्धसिन्धुलहरीभङ्गाभिरामोद्गमाः
श्यामाकामुकखण्डमण्डनकथासंदर्भगर्भा गिरः ॥ २८ ॥
 
१. 'अखण्डं' इति ख- पाठ: २. 'सलीलं' इति ख- पाठः.
 
Digitized by Google