This page has not been fully proofread.

५ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
समीपं गच्छति तादृशो लघुरपि प्राकृतोऽपि जनो गुरुतां गौरवमेति प्राप्नोति । यस्य
कथंभूतस्य परमत्यर्थमर्थेन धनेन परिष्कृतो भूषितस्तस्य । आढ्यस्येत्यर्थः । अथ च तं
शंकरस्तुतिपरं शंभुस्तोत्रलीनं सुशोभनं श्लोकं चतुष्पादीलक्षितं परिशुद्धवृत्तं परिशुद्धं
वृत्तं छन्दो वसन्ततिलकशार्दूलविक्रीडितादि यस्य तमाप्य कस्य न चेतां मुदमेति ।
'वृत्तं छन्दश्चरित्रयोः' इति विश्वः । तं सुश्लोकं कम् । अर्थेन वाच्येन परिष्कृतस्य शो-
भितस्य यस्य श्लोकस्य परमग्रन्थं संयोगमेत्य लघुरपि वर्णो 'हस्त्रं लघु' इति वैयाकरण-
परिभाषया प्रसिद्धो गुरुतां गुर्वक्षरभावं दीर्घो गुरुः' इति परिभाषितमेति प्राप्नोति ।
तथा पादान्तगोऽपि श्लोकचरणान्तस्थितो लघुर्वर्णो गुरुतां गुर्वक्षरतामेति प्राप्नोति ।
'संयोगे गुरु:' पादान्ते लघुरपि गुरुतां भजत इति च्छन्दःशास्त्रे परिभाषितम् ॥
इह हि महिमा मायामोह
प्ररोहतिरोहित-
त्रिजगदगदंकारः सारस्वतः प्रथते सताम् ।
प्रभवति जरामृत्युव्याधिप्रबन्धनिबन्धन-
व्यसनजनितव्यापत्तापक्कलमापगमाय यः ॥ २४ ॥
 
इह हीति । हि निश्चये । माया अविद्या श्रीशिवतत्त्वाजग द्भेदप्रथा तया यो मोहो-
ऽज्ञानम् । सैव मोहो वा । तस्य प्ररोह उद्भवस्तेन तिरोहितं समावृतं यत्रिजगत्तस्या-
गदंकारश्चिकित्सकः । तन्निवारक इत्यर्थः । 'रोगहार्यगदंकारो भिषग्वैद्यश्चिकित्सके'
इत्यमरः । एवंभूतः सारस्वतः सरस्वत्या वाग्देव्याः संबन्धी महिमा निपुणकविकर्मो-
ल्लासरूपः सतां विदुषां प्रथते विस्तारमेति । स क इत्याह - यो वाग्देवीमहिमा प्रभ-
वति समर्थो भवति । कस्मै । जरा विस्रसा च मृत्युश्च व्याधिश्च जरामृत्युरूपो व्याधिर्वा
तस्य यः प्रबन्धस्तस्य निबन्धनेनानुसंधानेन जनिता या व्यापद्विशेषेणापत्तस्यास्तापेन
यः क्लमः क्लेशस्तस्यापगमायात्यन्त दुःखनिवृत्त्यै ॥
 
चमत्कारोत्कर्ष कमपि कमनीयं विमृशतां
 
दिशन्ती सा काचिज्जयति कविवाचां परिणतिः ।
येदासृष्टे चेतस्यमृतमिति निःश्रेयसमिति
 
प्रियं धामेत्युच्चैः पदमिति समुद्यन्ति मतयः ॥ २५ ॥
चमत्कारेति । विमृशतां विचारयतां कमप्यनिर्वाच्यं कमनीयं चमत्कारोत्कर्ष दि
शन्ती सा काचिद निर्वाच्या कविवाचां कविवरवचसां परिणतिः प्रौढत्वमया जयति
सर्वोत्कृष्टा आस्ते । सा केत्याह - यया कविप्रौढोक्त्या श्रीशिवभक्तिरसामृतसिक्तया
आसृष्टे स्पृष्टे चेतसि इदमेवामृतमिति इदं निःश्रेयसं कैवल्यमिदमेवेति प्रियं ब्रह्मादिका -
रणातीतत्वात्प्रेमास्पदमिदमेव स्थानमिति तेजो वेति इदमुच्चैः पदं द्वादशान्तपदस्थित
१. 'प्रथतेतराम्' इति क-पाठ:. २. 'यदातुष्टे' इति ख- पाठः.
 
Digitized by Google