This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
यस्यैकपिङ्गलगिरेरिव मानसेऽन्त-

रर्थाः स्फुरन्ति स विना [^१]सुकृतैः क्व लम्यः ॥ २१ ॥

 
गाम्भीर्येति । जनेन स कविर्विना सुकृतैः पुण्यैः क्व लभ्यः । स क इत्याह -गा-

म्भीर्यशालिनि प्राकृतैरलब्धाभिप्राये शुचावनघे अमृतौघवत्सुधाप्रवाहवच्छीते अत एव

मदनान्तकेन श्रीशंभुना सदनतां निजालयतां नीते यस्य मानसे चित्ते एकपिङ्गलगिरे-

र्वैश्रवणाद्रेः कैलासस्येव मानसे मानसाख्ये सरोवरे गाम्भीर्यशालिनि निम्नताशोभिनि

शुचौ निर्मले अमृतौघेन वारिप्रवाहेण शीते । मनःपक्षे - अर्थावाच्यलक्ष्यव्यङ्गथाग्यास्त्रयः ।

मानससरोवरपक्षे – अर्थाः पदार्था नानाविधा अन्तः स्फुरन्ति विलसन्ति प्रतिबि
 
-
 

म्बत्वेन लगन्ति च ॥
 
६०
 

 
यस्य द्युसिन्धुलहरीशुचयो न कस्य

दृष्टिप्रसादमवलोकयतोऽर्पयन्त्यः ।

गावः सुधारसमुचः प्रसरन्ति दिक्षु
 

विश्वैकभूषणमसौ जयति द्विजेन्द्रः ॥ २२ ॥
 

 
यस्येति । असौ द्विजेन्द्रो जन्मना वैदिकसंस्कारेण च द्वाभ्यां जातो द्विजो जयति

सर्वोत्कृष्टो भवति । असौ क इत्याह – यस्येत्यादि । यस्य द्विजेन्द्रस्य महाकवेर्बुद्युसिन्धु-

लहरीवद्गङ्गातरङ्गवच्छुचयो निर्मला निर्दोषाः, तथा कस्य न अवलोकयतो विचारयतो

दृष्टेर्ज्ञानस्य प्रसादं प्रसन्नतामर्पयन्त्यो ददत्यः, तथा सुधारसमुचोऽमृतरसमुचो गावो

वाचो दिक्षु स्फुरन्ति स द्विजेन्द्रः कवीन्द्रो जयतीत्यर्थः । अथ च स द्विजानां नक्षत्रा-

णामिन्द्रो द्विजेन्द्रश्चन्द्रो जयति । सोऽपि विश्वैकभूषणीभूतः । स क इत्याह – यस्य

चन्द्रमसो गङ्गातरङ्गवन्निर्मला: कस्य न जनस्य दृष्टीनां नेत्राणां प्रसादममृतमयत्वादर्प-

यन्त्यो ददत्यः, तथा सुधारसमुचोऽमृतमुचो गावो रश्मयो दिक्षु प्रसरन्ति ॥

 
संयोगमेत्य परमर्थपरिष्कृतस्य
 

पादान्तगोऽपि गुरुतां लघुरेति यस्य ।

तं शंकरस्तुतिपरं पै[^३]परिशुद्धवृत्तं
 

सुश्लोकमाप्य मुदमेति न कस्य चेतः ॥ २३ ॥
 

 
संयोगमिति । तं परिशुद्धवृत्तं परिशुद्धं वृत्तं सञ्च्चरित्रं यस्य तादृशम् । सुश्लोकं सु

शोभनः श्लोको यशो यस्य तम् । 'श्लोको यशसि पद्ये च' इत्यमरः । एवंविधं शंकरस्तु-

तिपरं श्रीशिव तुतिसक्तं जनमाप्य कस्य न चेतो मुदं हर्षमेति । अपि तु सर्वस्य । तं

कमित्याह - यस्य शंभुभक्तस्य संयोगं समागममेत्य पादान्तगः पादयोश्चरणयोरन्तं
 

 
[^
]. 'सुकृतैरलभ्यः' इति ख- पाठ:.
[^
]. 'परमार्थ' इति ख- पाठः
[^
]. 'सुविशुद्ध'
इति क-पाठः.
 
Digitized by Google