This page has not been fully proofread.

काव्यमाला ।
 
यस्यैकपिङ्गलगिरेरिव मानसेऽन्त-
रर्थाः स्फुरन्ति स विना सुकृतैः क्व लम्यः ॥ २१ ॥
गाम्भीर्येति । जनेन स कविविना सुकृतैः पुण्यैः क्व लभ्यः । स क इत्याह -गा-
म्भीर्यशालिनि प्राकृतैरलब्धाभिप्राये शुचावनघे अमृतौघवत्सुधाप्रवाहवच्छीते अत एव
मदनान्तकेन श्रीशंभुना सदनतां निजालयतां नीते यस्य मानसे चित्ते एकपिङ्गलगिरे-
र्वैश्रवणाद्रेः कैलासस्येव मानसे मानसाख्ये सरोवरे गाम्भीर्यशालिनि निम्नताशोभिनि
शुचौ निर्मले अमृतघेन वारिप्रवाहेण शीते । मनःपक्षे - अर्थावाच्यलक्ष्यव्यङ्गथास्त्रयः ।
मानससरोवरपक्षे – अर्थाः पदार्था नानाविधा अन्तः स्फुरन्ति विलसन्ति प्रतिबि
 
-
 
म्बत्वेन लगन्ति च ॥
 
६०
 
यस्य द्युसिन्धुलहरीशुचयो न कस्य
दृष्टिप्रसादमवलोकयतोऽर्पयन्त्यः ।
गावः सुधारसमुचः प्रसरन्ति दिक्षु
 
विश्वैकभूषणमसौ जयति द्विजेन्द्रः ॥ २२ ॥
 
यस्येति । असौ द्विजेन्द्रो जन्मना वैदिकसंस्कारेण च द्वाभ्यां जातो द्विजो जयति
सर्वोत्कृष्टो भवति । असौ क इत्याह – यस्येत्यादि । यस्य द्विजेन्द्रस्य महाकवेर्बुसिन्धु-
लहरीवद्गङ्गातरङ्गवच्छुचयो निर्मला निर्दोषाः, तथा कस्य न अवलोकयतो विचारयतो
दृष्टेर्ज्ञानस्य प्रसादं प्रसन्नतामर्पयन्त्यो ददत्यः, तथा सुधारसमुचोऽमृतरसमुचो गावो
वाचो दिक्षु स्फुरन्ति स द्विजेन्द्रः कवीन्द्रो जयतीत्यर्थः । अथ च स द्विजानां नक्षत्रा-
णामिन्द्रो द्विजेन्द्रश्चन्द्रो जयति । सोऽपि विश्वैकभूषणीभूतः । स क इत्याह – यस्य
चन्द्रमसो गङ्गातरङ्ग वनिर्मला: कस्य न जनस्य दृष्टीनां नेत्राणां प्रसादममृतमयत्वादर्प-
यन्त्यो ददत्यः, तथा सुधारसमुचोऽमृतमुचो गावो रश्मयो दिक्षु प्रसरन्ति ॥
संयोगमेत्य परमर्थपरिष्कृतस्य
 
पादान्तगोऽपि गुरुतां लघुरेति यस्य ।
तं शंकरस्तुतिपरं पैरिशुद्धवृत्तं
 
सुश्लोकमाप्य मुदमेति न कस्य चेतः ॥ २३ ॥
 
संयोगमिति । तं परिशुद्धवृत्तं परिशुद्धं वृत्तं सञ्चरित्रं यस्य तादृशम् । सुश्लोकं सु
शोभनः श्लोको यशो यस्य तम् । 'श्लोको यशसि पद्ये च' इत्यमरः । एवंविधं शंकरस्तु-
तिपरं श्रीशिव तुतिसक्तं जनमाप्य कस्य न चेतो मुदं हर्षमेति । अपि तु सर्वस्य । तं
कमित्याह - यस्य शंभुभक्तस्य संयोगं समागममेत्य पादान्तगः पादयोश्चरणयोरन्तं
 
१. 'सुकृतैरलभ्यः' इति ख- पाठ:. २. 'परमार्थ' इति ख- पाठः ३. 'सुविशुद्ध'
इति क-पाठः.
 
Digitized by Google